Click on words to see what they mean.

अर्जुन उवाच ।ततो निवातकवचाः सर्वे वेगेन भारत ।अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ॥ १ ॥
आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः ।आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ॥ २ ॥
ततोऽपरे महावीर्याः शूलपट्टिशपाणयः ।शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ॥ ३ ॥
तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् ।अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ॥ ४ ॥
अन्ये मामभ्यधावन्त निवातकवचा युधि ।शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ॥ ५ ॥
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः ।गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ।ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ॥ ६ ॥
ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः ।रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः ।सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् ॥ ७ ॥
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे ।तदा मातलिना यत्ता व्यचरन्नल्पका इव ॥ ८ ॥
तेषां चरणपातेन रथनेमिस्वनेन च ।मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ॥ ९ ॥
गतासवस्तथा चान्ये प्रगृहीतशरासनाः ।हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः ॥ १० ॥
ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः ।निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः ॥ ११ ॥
ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् ।अश्वांस्तथा वेगवतो यदयत्नादधारयत् ॥ १२ ॥
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे ।सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः ॥ १३ ॥
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् ।प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ॥ १४ ॥
वध्यमानास्ततस्ते तु हयैस्तेन रथेन च ।अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे ॥ १५ ॥
स्पर्धमाना इवास्माभिर्निवातकवचा रणे ।शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् ॥ १६ ॥
ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः ।व्यधमं सायकैराशु शतशोऽथ सहस्रशः ॥ १७ ॥
ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः ।अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः ॥ १८ ॥
ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् ।दयितं देवराजस्य माधवं नाम भारत ॥ १९ ॥
ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः ।अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम् ॥ २० ॥
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः ।प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ॥ २१ ॥
गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः ।निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् ॥ २२ ॥
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव ।अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ॥ २३ ॥
वध्यमानास्ततस्ते तु निवातकवचाः पुनः ।शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ॥ २४ ॥
शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः ।ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥ २५ ॥
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् ॥ २६ ॥
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः ।मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः ॥ २७ ॥
शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः ।ततो निवातकवचा मामयुध्यन्त मायया ॥ २८ ॥
« »