Click on words to see what they mean.

जनमेजय उवाच ।पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः ।कियन्तं कालमवसन्पर्वते गन्धमादने ॥ १ ॥
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् ।वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥ २ ॥
विस्तरेण च मे शंस भीमसेनपराक्रमम् ।यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ।न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम ॥ ३ ॥
कच्चित्समागमस्तेषामासीद्वैश्रवणेन च ।तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् ॥ ४ ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥ ५ ॥
वैशंपायन उवाच ।एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः ।शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥ ६ ॥
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥ ७ ॥
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च ।एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥ ८ ॥
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् ।शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च ॥ ९ ॥
कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः ।राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो ॥ १० ॥
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् ।अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ॥ ११ ॥
तैस्तत्र रममाणैश्च विहरद्भिश्च पाण्डवैः ।प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥ १२ ॥
आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः ।तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः ॥ १३ ॥
ततः कतिपयाहस्य महाह्रदनिवासिनम् ।ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् ॥ १४ ॥
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः ।ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् ॥ १५ ॥
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः ।अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ १६ ॥
तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः ।ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी ॥ १७ ॥
भीमसेनं ततः कृष्णा काले वचनमब्रवीत् ।विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥ १८ ॥
सुपर्णानिलवेगेन श्वसनेन महाबलात् ।पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ।प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति ॥ १९ ॥
खाण्डवे सत्यसंधेन भ्रात्रा तव नरेश्वर ।गन्धर्वोरगरक्षांसि वासवश्च निवारितः ।हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् ॥ २० ॥
तवापि सुमहत्तेजो महद्बाहुबलं च ते ।अविषह्यमनाधृष्यं शतक्रतुबलोपमम् ॥ २१ ॥
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः ।हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥ २२ ॥
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् ।व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ॥ २३ ॥
एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः ।द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ॥ २४ ॥
ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः ।नामृष्यत महाबाहुः प्रहारमिव सद्गवः ॥ २५ ॥
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः ।मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः ॥ २६ ॥
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः ।सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः ॥ २७ ॥
महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः ।रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत् ॥ २८ ॥
केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः ।व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥ २९ ॥
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् ।ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् ॥ ३० ॥
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः ।व्यपेतभयसंमोहः शैलराजं समाविशत् ॥ ३१ ॥
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः ।कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ ३२ ॥
तदेकायनमासाद्य विषमं भीमदर्शनम् ।बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥ ३३ ॥
स किंनरमहानागमुनिगन्धर्वराक्षसान् ।हर्षयन्पर्वतस्याग्रमाससाद महाबलः ॥ ३४ ॥
तत्र वैश्रवणावासं ददर्श भरतर्षभः ।काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलंकृतम् ॥ ३५ ॥
मोदयन्सर्वभूतानि गन्धमादनसंभवः ।सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ ३६ ॥
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः ।अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः ॥ ३७ ॥
रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम् ।राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः ॥ ३८ ॥
गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः ।भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः ॥ ३९ ॥
ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् ।ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत् ॥ ४० ॥
ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः ।यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥ ४१ ॥
गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः ।प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥ ४२ ॥
ततः प्रववृते युद्धं तेषां तस्य च भारत ।तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान् ।भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥ ४३ ॥
अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् ।शरैर्विव्याध गात्राणि राक्षसानां महाबलः ॥ ४४ ॥
सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् ।कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥ ४५ ॥
भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम् ।विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च ॥ ४६ ॥
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् ।ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥ ४७ ॥
स रश्मिभिरिवादित्यः शरैररिनिघातिभिः ।सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥ ४८ ॥
अभितर्जयमानाश्च रुवन्तश्च महारवान् ।न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ ४९ ॥
ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः ।भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥ ५० ॥
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् ।दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥ ५१ ॥
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः ।सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥ ५२ ॥
अदर्शयदधीकारं पौरुषं च महाबलः ।स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥ ५३ ॥
एकेन बहवः संख्ये मानुषेण पराजिताः ।प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥ ५४ ॥
एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः ।शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम् ॥ ५५ ॥
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत् ॥ ५६ ॥
मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम् ।प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः ॥ ५७ ॥
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् ।शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः ॥ ५८ ॥
प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः ।न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥ ५९ ॥
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् ।व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥ ६० ॥
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् ।तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः ॥ ६१ ॥
सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् ।साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥ ६२ ॥
सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः ।गदां जग्राह कौरव्यो गदायुद्धविशारदः ॥ ६३ ॥
तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम् ।तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् ॥ ६४ ॥
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि ।प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥ ६५ ॥
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः ।अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥ ६६ ॥
सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम् ।प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥ ६७ ॥
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा ।हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥ ६८ ॥
तं राक्षसं भीमबलं भीमसेनेन पातितम् ।ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् ॥ ६९ ॥
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः ।भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति ॥ ७० ॥
« »