Click on words to see what they mean.

वैशंपायन उवाच ।युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् ।अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ॥ १ ॥
ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ ।शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ॥ २ ॥
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः ।यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ॥ ३ ॥
अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा ।पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ॥ ४ ॥
कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः ।सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् ॥ ५ ॥
नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे ।मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ॥ ६ ॥
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः ।कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ॥ ७ ॥
सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् ।यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे ॥ ८ ॥
यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः ।वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ॥ ९ ॥
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते ।दानधर्मतपःशौचैरार्जवेन तितिक्षया ॥ १० ॥
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे ।कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ॥ ११ ॥
स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः ।पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च ॥ १२ ॥
किं न्वस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति ।किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् ॥ १३ ॥
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः ।यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ ॥ १४ ॥
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा ।जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु ॥ १५ ॥
कामिनः सह कान्ताभिः परस्परमनुव्रताः ।दृश्यन्ते शैलशृङ्गस्थास्तथा किंपुरुषा नृप ॥ १६ ॥
अरजांसि च वासांसि वसानाः कौशिकानि च ।दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ॥ १७ ॥
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः ।महोरगगणाश्चैव सुपर्णाश्चोरगादयः ॥ १८ ॥
अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु ।भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः ॥ १९ ॥
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः ।न कार्या वः कथंचित्स्यात्तत्राभिसरणे मतिः ॥ २० ॥
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः ।विहारो ह्यत्र देवानाममानुषगतिस्तु सा ॥ २१ ॥
ईषच्चपलकर्माणं मनुष्यमिह भारत ।द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ॥ २२ ॥
अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर ।गतिः परमसिद्धानां देवर्षीणां प्रकाशते ॥ २३ ॥
चापलादिह गच्छन्तं पार्थ यानमतः परम् ।अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ॥ २४ ॥
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः ।इह वैश्रवणस्तात पर्वसंधिषु दृश्यते ॥ २५ ॥
शिखरे तं समासीनमधिपं सर्वरक्षसाम् ।प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ॥ २६ ॥
देवदानवसिद्धानां तथा वैश्रवणस्य च ।गिरेः शिखरमुद्यानमिदं भरतसत्तम ॥ २७ ॥
उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु ।गीतसामस्वनस्तात श्रूयते गन्धमादने ॥ २८ ॥
एतदेवंविधं चित्रमिह तात युधिष्ठिर ।प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु ॥ २९ ॥
भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च ।वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् ॥ ३० ॥
न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन ।उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ।ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि ॥ ३१ ॥
« »