Click on words to see what they mean.

वैशंपायन उवाच ।निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् ।अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ॥ १ ॥
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः ।द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् ॥ २ ॥
समाश्चतस्रोऽभिगताः शिवेन चरतां वने ।कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् ॥ ३ ॥
प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् ।तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥ ४ ॥
कृतश्च समयस्तेन पार्थेनामिततेजसा ।पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ॥ ५ ॥
तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् ।देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ॥ ६ ॥
इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः ।कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् ॥ ७ ॥
तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् ।ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ॥ ८ ॥
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ ।क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ॥ ९ ॥
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् ।प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः ॥ १० ॥
द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा ।राक्षसैरनुयातश्च लोमशेनाभिरक्षितः ॥ ११ ॥
क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् ।तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः ॥ १२ ॥
ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् ।सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ॥ १३ ॥
अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् ।गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ॥ १४ ॥
उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः ।प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ॥ १५ ॥
ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् ।पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते ॥ १६ ॥
सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः ।समावृतं पुण्यतममाश्रमं वृषपर्वणः ॥ १७ ॥
तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः ।पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः ॥ १८ ॥
अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् ।पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः ॥ १९ ॥
अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम् ।आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् ॥ २० ॥
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे ।न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् ॥ २१ ॥
ततस्ते वरवस्त्राणि शुभान्याभरणानि च ।न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः ॥ २२ ॥
अतीतानागते विद्वान्कुशलः सर्वधर्मवित् ।अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ॥ २३ ॥
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् ।कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः ।तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः ॥ २४ ॥
उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा ।अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च ।वृषपर्वा निववृते पन्थानमुपदिश्य च ॥ २५ ॥
नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः ।पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ॥ २६ ॥
नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु ।पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः ॥ २७ ॥
महाभ्रघनसंकाशं सलिलोपहितं शुभम् ।मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ॥ २८ ॥
ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा ।अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ॥ २९ ॥
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः ।सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ॥ ३० ॥
धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः ।अगमन्सहितास्तत्र न कश्चिदवहीयते ॥ ३१ ॥
ते मृगद्विजसंघुष्टं नानाद्विजसमाकुलम् ।शाखामृगगणैश्चैव सेवितं सुमनोहरम् ॥ ३२ ॥
पुण्यं पद्मसरोपेतं सपल्वलमहावनम् ।उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम् ॥ ३३ ॥
ततः किंपुरुषावासं सिद्धचारणसेवितम् ।ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम् ॥ ३४ ॥
विद्याधरानुचरितं किंनरीभिस्तथैव च ।गजसिंहसमाकीर्णमुदीर्णशरभायुतम् ॥ ३५ ॥
उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः ।ते गन्धमादनवनं तन्नन्दनवनोपमम् ॥ ३६ ॥
मुदिताः पाण्डुतनया मनोहृदयनन्दनम् ।विविशुः क्रमशो वीरा अरण्यं शुभकाननम् ॥ ३७ ॥
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः ।शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् ।श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥ ३८ ॥
सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् ।पश्यन्तः पादपांश्चापि फलभारावनामितान् ॥ ३९ ॥
आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् ।अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान् ॥ ४० ॥
पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान् ।पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान् ॥ ४१ ॥
बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा ।प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा ।भल्लातकानामलकान्हरीतकबिभीतकान् ॥ ४२ ॥
इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान् ।एतानन्यांश्च विविधान्गन्धमादनसानुषु ॥ ४३ ॥
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् ।तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा ॥ ४४ ॥
पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् ।पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ॥ ४५ ॥
पारिजातान्कोविदारान्देवदारुतरूंस्तथा ।शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा ।शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा ॥ ४६ ॥
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः ।कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ ४७ ॥
प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः ।श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ॥ ४८ ॥
सरांसि च विचित्राणि प्रसन्नसलिलानि च ।कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः ।कह्लारैः कमलैश्चैव आचितानि समन्ततः ॥ ४९ ॥
कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः ।कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ।एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥ ५० ॥
हृष्टैस्तथा तामरसरसासवमदालसैः ।पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ॥ ५१ ॥
मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् ।पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु ॥ ५२ ॥
तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः ।शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च ।मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ॥ ५३ ॥
कृत्वैव केकामधुरं संगीतमधुरस्वरम् ।चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ।मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् ॥ ५४ ॥
कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम् ।वल्लीलतासंकटेषु कटकेषु स्थितांस्तथा ॥ ५५ ॥
कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि ।कलापरचिताटोपान्विचित्रमुकुटानिव ।विवरेषु तरूणां च मुदितान्ददृशुश्च ते ॥ ५६ ॥
सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् ।सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च ॥ ५७ ॥
कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् ।अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् ।कामवश्योत्सुककरान्कामस्येव शरोत्करान् ॥ ५८ ॥
तथैव वनराजीनामुदारान्रचितानिव ।विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ॥ ५९ ॥
तथानङ्गशराकारान्सहकारान्मनोरमान् ।अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् ॥ ६० ॥
हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि ।लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि ॥ ६१ ॥
तथा शालांस्तमालांश्च पाटल्यो बकुलानि च ।माला इव समासक्ताः शैलानां शिखरेषु च ॥ ६२ ॥
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः ।गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् ॥ ६३ ॥
शरभोन्नादसंघुष्टं नानारावनिनादितम् ।सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ॥ ६४ ॥
पीता भास्वरवर्णाभा बभूवुर्वनराजयः ।नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः ।स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥ ६५ ॥
विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः ।राजहंसैरुपेतानि सारसाभिरुतानि च ।सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥ ६६ ॥
पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च ।गन्धवन्ति च माल्यानि रसवन्ति फलानि च ।अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ ६७ ॥
एते चान्ये च बहवस्तत्र काननजा द्रुमाः ।लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः ॥ ६८ ॥
युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे ।भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् ॥ ६९ ॥
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः ।अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ॥ ७० ॥
लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः ।संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ॥ ७१ ॥
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् ।नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु ॥ ७२ ॥
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः ।पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् ॥ ७३ ॥
रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः ।परस्परमुदीक्षन्ते बहवो जीवजीवकाः ॥ ७४ ॥
हरितारुणवर्णानां शाद्वलानां समन्ततः ।सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ॥ ७५ ॥
वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः ।भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः ॥ ७६ ॥
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः ।एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ॥ ७७ ॥
बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः ।नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः ॥ ७८ ॥
भास्कराभप्रभा भीम शारदाभ्रघनोपमाः ।शोभयन्ति महाशैलं नानारजतधातवः ॥ ७९ ॥
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः ।धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ॥ ८० ॥
मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः ।शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ॥ ८१ ॥
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः ।एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ॥ ८२ ॥
गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा ।दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह ॥ ८३ ॥
गीतानां तलतालानां यथा साम्नां च निस्वनः ।श्रूयते बहुधा भीम सर्वभूतमनोहरः ॥ ८४ ॥
महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् ।कलहंसगणैर्जुष्टामृषिकिंनरसेविताम् ॥ ८५ ॥
धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः ।गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ॥ ८६ ॥
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः ।उपेतं पश्य कौन्तेय शैलराजमरिंदम ॥ ८७ ॥
ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् ।नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः ॥ ८८ ॥
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः ।आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा ॥ ८९ ॥
ततस्तं तीव्रतपसं कृशं धमनिसंततम् ।पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् ॥ ९० ॥
« »