Click on words to see what they mean.

वैशंपायन उवाच ।ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् ।गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ॥ १ ॥
रहितान्भीमसेनेन कदाचित्तान्यदृच्छया ।जहार धर्मराजानं यमौ कृष्णां च राक्षसः ॥ २ ॥
ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः ।इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ॥ ३ ॥
परीक्षमाणः पार्थानां कलापानि धनूंषि च ।अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः ॥ ४ ॥
स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे ।अन्यद्रूपं समास्थाय विकृतं भैरवं महत् ॥ ५ ॥
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च ।प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ॥ ६ ॥
सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः ।आक्रन्दद्भीमसेनं वै येन यातो महाबलः ॥ ७ ॥
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः ।धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥ ८ ॥
येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि ।गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा ।मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि ॥ ९ ॥
समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते ।इमं च लोकं शोचन्तमनुशोचन्ति देवताः ।पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥ १० ॥
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस ।राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥ ११ ॥
न च राजावमन्तव्यो रक्षसा जात्वनागसि ।अणुरप्यपचारश्च नास्त्यस्माकं नराशन ॥ १२ ॥
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् ।येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥ १३ ॥
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः ।भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ॥ १४ ॥
एवमेव वृथाचारो वृथावृद्धो वृथामतिः ।वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥ १५ ॥
अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः ।प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ॥ १६ ॥
अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि ।अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् ॥ १७ ॥
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् ।विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ॥ १८ ॥
ततो युधिष्ठिरस्तस्य भारिकः समपद्यत ।स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ॥ १९ ॥
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः ।मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता ॥ २० ॥
नातिदूरे महाबाहुर्भविता पवनात्मजः ।अस्मिन्मुहूर्ते संप्राप्ते न भविष्यति राक्षसः ॥ २१ ॥
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् ।उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ॥ २२ ॥
राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् ।यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा ॥ २३ ॥
एष चास्मान्वयं चैनं युध्यमानाः परंतप ।सूदयेम महाबाहो देशकालो ह्ययं नृप ॥ २४ ॥
क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम ।जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥ २५ ॥
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि ।नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत ॥ २६ ॥
भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः ।हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि ॥ २७ ॥
तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया ।प्रादृश्यत महाबाहुः सवज्र इव वासवः ॥ २८ ॥
सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् ।क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ॥ २९ ॥
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् ।भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् ॥ ३० ॥
भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः ।क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् ॥ ३१ ॥
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे ।आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ।ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ॥ ३२ ॥
प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् ।अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् ।राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् ॥ ३३ ॥
अपक्वस्य च कालेन वधस्तव न विद्यते ।नूनमद्यासि संपक्वो यथा ते मतिरीदृशी ।दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ॥ ३४ ॥
बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः ।मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि ॥ ३५ ॥
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते ।न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥ ३६ ॥
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः ।भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥ ३७ ॥
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः ।न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥ ३८ ॥
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे ।तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् ॥ ३९ ॥
एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् ।स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ।बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ॥ ४० ॥
राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् ।अभिदुद्राव संरब्धो बलो वज्रधरं यथा ॥ ४१ ॥
वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे ।माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् ॥ ४२ ॥
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः ।शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥ ४३ ॥
आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च ।इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥ ४४ ॥
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् ।बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥ ४५ ॥
तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः ।अमृष्यमाणयोः संख्ये देवदानवयोरिव ॥ ४६ ॥
आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः ।जीमूताविव घर्मान्ते विनदन्तौ महाबलौ ॥ ४७ ॥
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ ।अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ ॥ ४८ ॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ ४९ ॥
आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् ।ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ॥ ५० ॥
तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः ।पुञ्जीकृताश्च शतशः परस्परवधेप्सया ॥ ५१ ॥
तदा शिलाः समादाय मुहूर्तमिव भारत ।महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ॥ ५२ ॥
उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम् ।वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ॥ ५३ ॥
अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ ।भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ॥ ५४ ॥
मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः ।तयोश्चटचटाशब्दो बभूव सुमहात्मनोः ॥ ५५ ॥
ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् ।वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ॥ ५६ ॥
ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् ।सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ॥ ५७ ॥
तत एनं महाबाहुर्बाहुभ्याममरोपमः ।समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ॥ ५८ ॥
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः ।अरत्निना चाभिहत्य शिरः कायादपाहरत् ॥ ५९ ॥
संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् ।जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् ।पपात रुधिरादिग्धं संदष्टदशनच्छदम् ॥ ६० ॥
तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् ।स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः ॥ ६१ ॥
« »