Click on words to see what they mean.

लोमश उवाच ।ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम् ।संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ॥ १ ॥
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव ।रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव ॥ २ ॥
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः ।उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ॥ ३ ॥
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् ।याजयिष्यामि राजंस्त्वां संभारानुपकल्पय ॥ ४ ॥
ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः ।च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ ५ ॥
प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् ।कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ ६ ॥
तत्रैनं च्यवनो राजन्याजयामास भार्गवः ।अद्भुतानि च तत्रासन्यानि तानि निबोध मे ॥ ७ ॥
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ।तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् ॥ ८ ॥
इन्द्र उवाच ।उभावेतौ न सोमार्हौ नासत्याविति मे मतिः ।भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः ॥ ९ ॥
च्यवन उवाच ।मावमंस्था महात्मानौ रूपद्रविणवत्तरौ ।यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् ॥ १० ॥
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् ।अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ॥ ११ ॥
इन्द्र उवाच ।चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ ।लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ॥ १२ ॥
लोमश उवाच ।एतदेव यदा वाक्यमाम्रेडयति वासवः ।अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ॥ १३ ॥
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा ।समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ १४ ॥
आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् ।वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥ १५ ॥
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः ।जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥ १६ ॥
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः ।तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥ १७ ॥
संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् ।कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥ १८ ॥
ततः कृत्या समभवदृषेस्तस्य तपोबलात् ।मदो नाम महावीर्यो बृहत्कायो महासुरः ।शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः ॥ १९ ॥
तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत् ।हनुरेका स्थिता तस्य भूमावेका दिवं गता ॥ २० ॥
चतस्र आयता दंष्ट्रा योजनानां शतं शतम् ।इतरे त्वस्य दशना बभूवुर्दशयोजनाः ।प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः ॥ २१ ॥
बाहू पर्वतसंकाशावायतावयुतं समौ ।नेत्रे रविशशिप्रख्ये वक्त्रमन्तकसंनिभम् ॥ २२ ॥
लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया ।व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥ २३ ॥
स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ।महता घोररूपेण लोकाञ्शब्देन नादयन् ॥ २४ ॥
« »