Click on words to see what they mean.

धृतराष्ट्र उवाच ।किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् ।रक्षसा भीमसेनस्य कथमासीत्समागमः ॥ १ ॥
विदुर उवाच ।शृणु भीमस्य कर्मेदमतिमानुषकर्मणः ।श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥ २ ॥
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः ।जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ॥ ३ ॥
रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप ।प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् ॥ ४ ॥
तद्वनं तापसा नित्यं शेषाश्च वनचारिणः ।दूरात्परिहरन्ति स्म पुरुषादभयात्किल ॥ ५ ॥
तेषां प्रविशतां तत्र मार्गमावृत्य भारत ।दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत ॥ ६ ॥
बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् ।स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ॥ ७ ॥
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् ।सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ॥ ८ ॥
सृजन्तं राक्षसीं मायां महारावविराविणम् ।मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् ॥ ९ ॥
तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् ।विमुक्तनादाः संपेतुः स्थलजा जलजैः सह ॥ १० ॥
संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् ।तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् ॥ ११ ॥
तस्योरुवाताभिहता ताम्रपल्लवबाहवः ।विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् ॥ १२ ॥
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः ।रजसा संवृतं तेन नष्टर्क्षमभवन्नभः ॥ १३ ॥
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः ।पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः ॥ १४ ॥
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् ।आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ॥ १५ ॥
तं समासाद्य वित्रस्ता कृष्णा कमललोचना ।अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने ॥ १६ ॥
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा ।पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ॥ १७ ॥
मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः ।इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ॥ १८ ॥
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् ।रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ।पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ॥ १९ ॥
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः ।काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत ॥ २० ॥
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः ।को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ॥ २१ ॥
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् ।अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ॥ २२ ॥
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः ।युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ॥ २३ ॥
के यूयमिह संप्राप्ता भक्ष्यभूता ममान्तिकम् ।युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः ॥ २४ ॥
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः ।आचचक्षे ततः सर्वं गोत्रनामादि भारत ॥ २५ ॥
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः ।सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ॥ २६ ॥
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः ।वनमभ्यागतो घोरमिदं तव परिग्रहम् ॥ २७ ॥
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम ।उपपादितमद्येह चिरकालान्मनोगतम् ॥ २८ ॥
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः ।चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् ॥ २९ ॥
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् ।अनेन हि मम भ्राता बको विनिहतः प्रियः ॥ ३० ॥
वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा ।विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ॥ ३१ ॥
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः ।हतो दुरात्मनानेन स्वसा चास्य हृता पुरा ॥ ३२ ॥
सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् ।प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते ॥ ३३ ॥
अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम् ।तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ॥ ३४ ॥
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च ।शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् ॥ ३५ ॥
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै ।अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ॥ ३६ ॥
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् ।संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् ॥ ३७ ॥
एवमुक्तस्तु धर्मात्मा सत्यसंधो युधिष्ठिरः ।नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ॥ ३८ ॥
ततो भीमो महाबाहुरारुज्य तरसा द्रुम ।दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा ॥ ३९ ॥
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् ।निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ॥ ४० ॥
निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् ।अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत ॥ ४१ ॥
इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः ।निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली ।तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ॥ ४२ ॥
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि ।पातयामास वेगेन कुलिशं मघवानिव ॥ ४३ ॥
असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत ।चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ॥ ४४ ॥
तदुदस्तमलातं तु भीमः प्रहरतां वरः ।पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ॥ ४५ ॥
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् ।दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत ॥ ४६ ॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा ॥ ४७ ॥
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः ।यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा ॥ ४८ ॥
मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः ।चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥ ४९ ॥
तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते ।राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ॥ ५० ॥
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः ।प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ॥ ५१ ॥
तं शिलाताडनजडं पर्यधावत्स राक्षसः ।बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ॥ ५२ ॥
तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् ।उभावपि चकाशेते प्रयुद्धौ वृषभाविव ॥ ५३ ॥
तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः ।नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥ ५४ ॥
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः ।कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ॥ ५५ ॥
अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः ।मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः ॥ ५६ ॥
तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान् ।तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ॥ ५७ ॥
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा ।शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥ ५८ ॥
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः ।धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥ ५९ ॥
स भीमेन परामृष्टो दुर्बलो बलिना रणे ।व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ॥ ६० ॥
तत एनं परिश्रान्तमुपलभ्य वृकोदरः ।योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ॥ ६१ ॥
विनदन्तं महानादं भिन्नभेरीसमस्वनम् ।भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ॥ ६२ ॥
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः ।प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ॥ ६३ ॥
आक्रम्य स कटीदेशे जानुना राक्षसाधमम् ।अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः ॥ ६४ ॥
अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् ।भूतले पातयामास वाक्यं चेदमुवाच ह ॥ ६५ ॥
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् ।करिष्यसि गतश्चासि यमस्य सदनं प्रति ॥ ६६ ॥
इत्येवमुक्त्वा पुरुषप्रवीरस्तं राक्षसं क्रोधविवृत्तनेत्रः ।प्रस्रस्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज ॥ ६७ ॥
तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः ।भीमं प्रशस्याथ गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः ॥ ६८ ॥
एवं विनिहतः संख्ये किर्मीरो मनुजाधिप ।भीमेन वचनात्तस्य धर्मराजस्य कौरव ॥ ६९ ॥
ततो निष्कण्टकं कृत्वा वनं तदपराजितः ।द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ॥ ७० ॥
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः ।प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् ॥ ७१ ॥
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः ।विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् ॥ ७२ ॥
स मया गच्छता मार्गे विनिकीर्णो भयावहः ।वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ॥ ७३ ॥
तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत ।ब्राह्मणानां कथयतां ये तत्रासन्समागताः ॥ ७४ ॥
वैशंपायन उवाच ।एवं विनिहतं संख्ये किर्मीरं राक्षसोत्तमम् ।श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ॥ ७५ ॥
« »