Click on words to see what they mean.

वैशंपायन उवाच ।भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह ।पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने ॥ १ ॥
पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः ।केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ॥ २ ॥
वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः ।गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ॥ ३ ॥
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः ।परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ॥ ४ ॥
वासुदेव उवाच ।दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ ५ ॥
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् ।निकृत्योपचरन्वध्य एष धर्मः सनातनः ॥ ६ ॥
वैशंपायन उवाच ।पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् ।अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः ॥ ७ ॥
संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः ।कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ॥ ८ ॥
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः ।प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ॥ ९ ॥
अर्जुन उवाच ।दश वर्षसहस्राणि यत्रसायंगृहो मुनिः ।व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥ १० ॥
दश वर्षसहस्राणि दश वर्षशतानि च ।पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ॥ ११ ॥
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन ।अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥ १२ ॥
अपकृष्टोत्तरासङ्गः कृशो धमनिसंततः ।आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ॥ १३ ॥
प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् ।तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ।आतिष्ठस्तप एकेन पादेन नियमे स्थितः ॥ १४ ॥
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव ।निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥ १५ ॥
निहत्य नरकं भौममाहृत्य मणिकुण्डले ।प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥ १६ ॥
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् ।अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥ १७ ॥
ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः ।मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ॥ १८ ॥
स त्वं नारायणो भूत्वा हरिरासीः परंतप ।ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ॥ १९ ॥
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः ।अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥ २० ॥
तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः ।अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥ २१ ॥
शतं शतसहस्राणि सुवर्णस्य जनार्दन ।एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ॥ २२ ॥
अदितेरपि पुत्रत्वमेत्य यादवनन्दन ।त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ॥ २३ ॥
शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप ।त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ॥ २४ ॥
संप्राप्य दिवमाकाशमादित्यसदने स्थितः ।अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥ २५ ॥
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ २६ ॥
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह ।भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः ॥ २७ ॥
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा ।अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ॥ २८ ॥
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् ।हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ॥ २९ ॥
इरावत्यां तथा भोजः कार्तवीर्यसमो युधि ।गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥ ३० ॥
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन ।द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ॥ ३१ ॥
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन ।त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ॥ ३२ ॥
आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा ।आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ॥ ३३ ॥
युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन ।आत्मन्येवात्मसात्कृत्वा जगदास्से परंतप ॥ ३४ ॥
नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते ।कर्माणि यानि देव त्वं बाल एव महाद्युते ॥ ३५ ॥
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् ।वैराजभवने चापि ब्रह्मणा न्यवसः सह ॥ ३६ ॥
वैशंपायन उवाच ।एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः ।तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ॥ ३७ ॥
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते ।यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥ ३८ ॥
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् ।लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी ॥ ३९ ॥
अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत ।नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ॥ ४० ॥
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ।धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ॥ ४१ ॥
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह ।अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥ ४२ ॥
पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् ।स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ॥ ४३ ॥
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन ।यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् ॥ ४४ ॥
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम ।सत्याद्यज्ञोऽसि संभूतः कश्यपस्त्वां यथाब्रवीत् ॥ ४५ ॥
साध्यानामपि देवानां वसूनामीश्वरेश्वरः ।लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥ ४६ ॥
दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो ।जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ॥ ४७ ॥
विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् ।आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ॥ ४८ ॥
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् ।सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ॥ ४९ ॥
त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः ।लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश ।नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥ ५० ॥
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् ।त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥ ५१ ॥
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन ।ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥ ५२ ॥
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो ।धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥ ५३ ॥
स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता ।एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ॥ ५४ ॥
राजमध्ये सभायां तु रजसाभिसमीरिताम् ।दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥ ५५ ॥
दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन ।जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ॥ ५६ ॥
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ॥ ५७ ॥
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् ।ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥ ५८ ॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥ ५९ ॥
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा ।यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥ ६० ॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ ६१ ॥
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत ।भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥ ६२ ॥
नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन ।ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥ ६३ ॥
पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः ।एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ॥ ६४ ॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ ६५ ॥
कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः ।प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥ ६६ ॥
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः ।किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥ ६७ ॥
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा ।सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ॥ ६८ ॥
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् ।अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥ ६९ ॥
धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् ।यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ ७० ॥
य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् ।अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥ ७१ ॥
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् ।कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् ॥ ७२ ॥
तज्जीर्णमविकारेण सहान्नेन जनार्दन ।सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥ ७३ ॥
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् ।बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् ॥ ७४ ॥
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् ।उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ॥ ७५ ॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् ।सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥ ७६ ॥
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् ।सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ ७७ ॥
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते ।शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ॥ ७८ ॥
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् ।महद्व्यसनमापन्ना शिखिना परिवारिता ॥ ७९ ॥
हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् ।अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ॥ ८० ॥
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः ।आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ॥ ८१ ॥
वैनतेयो यथा पक्षी गरुडः पततां वरः ।तथैवाभिपतिष्यामि भयं वो नेह विद्यते ॥ ८२ ॥
आर्यामङ्केन वामेन राजानं दक्षिणेन च ।अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ॥ ८३ ॥
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् ।भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ॥ ८४ ॥
ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः ।अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् ॥ ८५ ॥
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः ।सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ॥ ८६ ॥
भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् ।पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ॥ ८७ ॥
तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः ।पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते ॥ ८८ ॥
तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः ।भीमरूपो महानादान्विसृजन्भीमदर्शनः ॥ ८९ ॥
केन सार्धं कथयसि आनयैनं ममान्तिकम् ।हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि ॥ ९० ॥
सा कृपासंगृहीतेन हृदयेन मनस्विनी ।नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता ॥ ९१ ॥
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः ।अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥ ९२ ॥
तमभिद्रुत्य संक्रुद्धो वेगेन महता बली ।अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ॥ ९३ ॥
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् ।संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ॥ ९४ ॥
गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा ।नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः ॥ ९५ ॥
तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः ।सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ॥ ९६ ॥
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह ।हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः ॥ ९७ ॥
ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः ।एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ॥ ९८ ॥
प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् ।ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ॥ ९९ ॥
तत्राप्यासादयामासुर्बकं नाम महाबलम् ।पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ॥ १०० ॥
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः ।सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ॥ १०१ ॥
लब्धाहमपि तत्रैव वसता सव्यसाचिना ।यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ॥ १०२ ॥
एवं सुयुद्धे पार्थेन जिताहं मधुसूदन ।स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः ॥ १०३ ॥
एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः ।निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ॥ १०४ ॥
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः ।विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ॥ १०५ ॥
एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् ।दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् ॥ १०६ ॥
कुले महति जातास्मि दिव्येन विधिना किल ।पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ॥ १०७ ॥
कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती ।पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ॥ १०८ ॥
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना ।पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ॥ १०९ ॥
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ ।अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ॥ ११० ॥
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः ।बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् ॥ १११ ॥
नैव मे पतयः सन्ति न पुत्रा मधुसूदन ।न भ्रातरो न च पिता नैव त्वं न च बान्धवाः ॥ ११२ ॥
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् ।न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ॥ ११३ ॥
अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे ।रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि ॥ ११४ ॥
बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान् ।निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले ॥ ११५ ॥
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः ।सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ॥ ११६ ॥
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् ।शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥ ११७ ॥
धृष्टद्युम्न उवाच ।अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् ।दुर्योधनं भीमसेनः कर्णं हन्ता धनंजयः ॥ ११८ ॥
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते ।अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ॥ ११९ ॥
वैशंपायन उवाच ।इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता ।तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ॥ १२० ॥
« »