Click on words to see what they mean.

वैशंपायन उवाच ।स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः ।तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ॥ १ ॥
लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान् ।भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् ॥ २ ॥
तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः ।रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ॥ ३ ॥
कदा नु रामो भगवांस्तापसान्दर्शयिष्यति ।तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् ॥ ४ ॥
अकृतव्रण उवाच ।आयानेवासि विदितो रामस्य विदितात्मनः ।प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ॥ ५ ॥
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः ।अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी ॥ ६ ॥
युधिष्ठिर उवाच ।भवाननुगतो वीरं जामदग्न्यं महाबलम् ।प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ॥ ७ ॥
स भवान्कथयत्वेतद्यथा रामेण निर्जिताः ।आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ॥ ८ ॥
अकृतव्रण उवाच ।कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः ।गाधीति विश्रुतो लोके वनवासं जगाम सः ॥ ९ ॥
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा ।ऋचीको भार्गवस्तां च वरयामास भारत ॥ १० ॥
तमुवाच ततो राजा ब्राह्मणं संशितव्रतम् ।उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम् ॥ ११ ॥
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ।सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम ॥ १२ ॥
न चापि भगवान्वाच्यो दीयतामिति भार्गव ।देया मे दुहिता चेयं त्वद्विधाय महात्मने ॥ १३ ॥
ऋचीक उवाच ।एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ।दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते ॥ १४ ॥
अकृतव्रण उवाच ।स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् ।एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ।सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम् ॥ १५ ॥
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा ।तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ॥ १६ ॥
गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा ।ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा ।लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः ॥ १७ ॥
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः ।यथाकामं यथाजोषं तया रेमे सुमध्यया ॥ १८ ॥
तं विवाहे कृते राजन्सभार्यमवलोककः ।आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ॥ १९ ॥
भार्यापती तमासीनं गुरुं सुरगणार्चितम् ।अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ॥ २० ॥
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् ।वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ॥ २१ ॥
सा वै प्रसादयामास तं गुरुं पुत्रकारणात् ।आत्मनश्चैव मातुश्च प्रसादं च चकार सः ॥ २२ ॥
भृगुरुवाच ।ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै ।आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् ॥ २३ ॥
आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम् ।कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् ॥ २४ ॥
अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् ।ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति ॥ २५ ॥
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् ।भविष्यति महावीर्यः साधूनां मार्गमास्थितः ॥ २६ ॥
ततः प्रसादयामास श्वशुरं सा पुनः पुनः ।न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ॥ २७ ॥
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता ।जमदग्निं ततः पुत्रं सा जज्ञे काल आगते ।तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ॥ २८ ॥
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै ।बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ॥ २९ ॥
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ ।चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ॥ ३० ॥
« »