Click on words to see what they mean.

विभाण्डक उवाच ।रक्षांसि चैतानि चरन्ति पुत्र रूपेण तेनाद्भुतदर्शनेन ।अतुल्यरूपाण्यतिघोरवन्ति विघ्नं सदा तपसश्चिन्तयन्ति ॥ १ ॥
सुरूपरूपाणि च तानि तात प्रलोभयन्ते विविधैरुपायैः ।सुखाच्च लोकाच्च निपातयन्ति तान्युग्रकर्माणि मुनीन्वनेषु ॥ २ ॥
न तानि सेवेत मुनिर्यतात्मा सतां लोकान्प्रार्थयानः कथंचित् ।कृत्वा विघ्नं तापसानां रमन्ते पापाचारास्तपसस्तान्यपाप ॥ ३ ॥
असज्जनेनाचरितानि पुत्र पापान्यपेयानि मधूनि तानि ।माल्यानि चैतानि न वै मुनीनां स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥ ४ ॥
लोमश उवाच ।रक्षांसि तानीति निवार्य पुत्रं विभाण्डकस्तां मृगयां बभूव ।नासादयामास यदा त्र्यहेण तदा स पर्याववृतेऽऽश्रमाय ॥ ५ ॥
यदा पुनः काश्यपो वै जगाम फलान्याहर्तुं विधिना श्रामणेन ।तदा पुनर्लोभयितुं जगाम सा वेशयोषा मुनिमृश्यशृङ्गम् ॥ ६ ॥
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः संभ्रान्तरूपोऽभ्यपतत्तदानीम् ।प्रोवाच चैनां भवतोऽऽश्रमाय गच्छाव यावन्न पिता ममैति ॥ ७ ॥
ततो राजन्काश्यपस्यैकपुत्रं प्रवेश्य योगेन विमुच्य नावम् ।प्रलोभयन्त्यो विविधैरुपायैराजग्मुरङ्गाधिपतेः समीपम् ॥ ८ ॥
संस्थाप्य तामाश्रमदर्शने तु संतारितां नावमतीव शुभ्राम् ।तीरादुपादाय तथैव चक्रे राजाश्रमं नाम वनं विचित्रम् ॥ ९ ॥
अन्तःपुरे तं तु निवेश्य राजा विभाण्डकस्यात्मजमेकपुत्रम् ।ददर्श देवं सहसा प्रवृष्टमापूर्यमाणं च जगज्जलेन ॥ १० ॥
स लोमपादः परिपूर्णकामः सुतां ददावृश्यशृङ्गाय शान्ताम् ।क्रोधप्रतीकारकरं च चक्रे गोभिश्च मार्गेष्वभिकर्षणं च ॥ ११ ॥
विभाण्डकस्याव्रजतः स राजा पशून्प्रभूतान्पशुपांश्च वीरान् ।समादिशत्पुत्रगृद्धी महर्षिर्विभाण्डकः परिपृच्छेद्यदा वः ॥ १२ ॥
स वक्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्य ते पशवः कर्षणं च ।किं ते प्रियं वै क्रियतां महर्षे दासाः स्म सर्वे तव वाचि बद्धाः ॥ १३ ॥
अथोपायात्स मुनिश्चण्डकोपः स्वमाश्रमं मूलफलानि गृह्य ।अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध ततो भृशं सः ॥ १४ ॥
ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेर्विधानम् ।जगाम चम्पां प्रदिधक्षमाणस्तमङ्गराजं विषयं च तस्य ॥ १५ ॥
स वै श्रान्तः क्षुधितः काश्यपस्तान्घोषान्समासादितवान्समृद्धान् ।गोपैश्च तैर्विधिवत्पूज्यमानो राजेव तां रात्रिमुवास तत्र ॥ १६ ॥
संप्राप्य सत्कारमतीव तेभ्यः प्रोवाच कस्य प्रथिताः स्थ सौम्याः ।ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य ॥ १७ ॥
देशे तु देशे तु स पूज्यमानस्तांश्चैव शृण्वन्मधुरान्प्रलापान् ।प्रशान्तभूयिष्ठरजाः प्रहृष्टः समाससादाङ्गपतिं पुरस्थम् ॥ १८ ॥
संपूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि देवं यथेन्द्रम् ।शान्तां स्नुषां चैव ददर्श तत्र सौदामिनीमुच्चरन्तीं यथैव ॥ १९ ॥
ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा शान्तां च शान्तोऽस्य परः स कोपः ।चकार तस्मै परमं प्रसादं विभाण्डको भूमिपतेर्नरेन्द्र ॥ २० ॥
स तत्र निक्षिप्य सुतं महर्षिरुवाच सूर्याग्निसमप्रभावम् ।जाते पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥ २१ ॥
स तद्वचः कृतवानृश्यशृङ्गो ययौ च यत्रास्य पिता बभूव ।शान्ता चैनं पर्यचरद्यथावत्खे रोहिणी सोममिवानुकूला ॥ २२ ॥
अरुन्धती वा सुभगा वसिष्ठं लोपामुद्रा वापि यथा ह्यगस्त्यम् ।नलस्य वा दमयन्ती यथाभूद्यथा शची वज्रधरस्य चैव ॥ २३ ॥
नाडायनी चेन्द्रसेना यथैव वश्या नित्यं मुद्गलस्याजमीढ ।तथा शान्ता ऋश्यशृङ्गं वनस्थं प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥ २४ ॥
तस्याश्रमः पुण्य एषो विभाति महाह्रदं शोभयन्पुण्यकीर्तेः ।अत्र स्नातः कृतकृत्यो विशुद्धस्तीर्थान्यन्यान्यनुसंयाहि राजन् ॥ २५ ॥
« »