Click on words to see what they mean.

लोमश उवाच ।ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः ।अनादृत्य महात्मानं कपिलं कालचोदिताः ।संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः ॥ १ ॥
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः ।वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् ॥ २ ॥
स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन् ।ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ॥ ३ ॥
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः ।सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् ॥ ४ ॥
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् ।मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ।आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् ॥ ५ ॥
अंशुमन्तं समाहूय असमञ्जःसुतं तदा ।पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥ ६ ॥
षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम् ।कापिलं तेज आसाद्य मत्कृते निधनं गताः ॥ ७ ॥
तव चापि पिता तात परित्यक्तो मयानघ ।धर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥ ८ ॥
युधिष्ठिर उवाच ।किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् ।त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥ ९ ॥
लोमश उवाच ।असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् ।यं शैब्या जनयामास पौराणां स हि दारकान् ।खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ॥ १० ॥
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः ।सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः ॥ ११ ॥
त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः ।असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि ॥ १२ ॥
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः ।मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् ॥ १३ ॥
असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् ।यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ॥ १४ ॥
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप ।यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः ॥ १५ ॥
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना ।पौराणां हितकामेन सगरेण विवासितः ॥ १६ ॥
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह ।तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥ १७ ॥
सगर उवाच ।पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च ।अलाभेन तथाश्वस्य परितप्यामि पुत्रक ॥ १८ ॥
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम् ।हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥ १९ ॥
लोमश उवाच ।अंशुमानेवमुक्तस्तु सगरेण महात्मना ।जगाम दुःखात्तं देशं यत्र वै दारिता मही ॥ २० ॥
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह ।अपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥ २१ ॥
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् ।प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥ २२ ॥
ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत् ।उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत ॥ २३ ॥
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् ।द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया ॥ २४ ॥
तमुवाच महातेजाः कपिलो मुनिपुंगवः ।ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥ २५ ॥
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् ।त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥ २६ ॥
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः ।पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ।पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥ २७ ॥
हयं नयस्व भद्रं ते यज्ञियं नरपुंगव ।यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥ २८ ॥
अंशुमानेवमुक्तस्तु कपिलेन महात्मना ।आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥ २९ ॥
सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः ।मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् ॥ ३० ॥
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा ।तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥ ३१ ॥
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् ।अंशुमन्तं च संपूज्य समापयत तं क्रतुम् ॥ ३२ ॥
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः ।पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥ ३३ ॥
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः ।पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा ॥ ३४ ॥
अंशुमानपि धर्मात्मा महीं सागरमेखलाम् ।प्रशशास महाराज यथैवास्य पितामहः ॥ ३५ ॥
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् ।तस्मै राज्यं समाधाय अंशुमानपि संस्थितः ॥ ३६ ॥
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् ।पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥ ३७ ॥
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः ।न चावतारयामास चेष्टमानो यथाबलम् ॥ ३८ ॥
तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः ।भगीरथ इति ख्यातः सत्यवागनसूयकः ॥ ३९ ॥
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः ।तपःसिद्धिसमायोगात्स राजा भरतर्षभ ।वनाज्जगाम त्रिदिवं कालयोगेन भारत ॥ ४० ॥
« »