Click on words to see what they mean.

लोमश उवाच ।एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम ।यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ ॥ १ ॥
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः ।रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ॥ २ ॥
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः ।बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान् ॥ ३ ॥
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् ।सर्वाणि चैव भूतानि शूराः समरशालिनः ॥ ४ ॥
वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः ।ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥ ५ ॥
तानुवाच महाभागः सर्वलोकपितामहः ।गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ॥ ६ ॥
नातिदीर्घेण कालेन सागराणां क्षयो महान् ।भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ॥ ७ ॥
एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर ।पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ॥ ८ ॥
ततः काले बहुतिथे व्यतीते भरतर्षभ ।दीक्षितः सगरो राजा हयमेधेन वीर्यवान् ।तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः ॥ ९ ॥
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् ।रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ॥ १० ॥
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् ।आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् ।तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् ॥ ११ ॥
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् ।अमार्गन्त महाराज सर्वं च पृथिवीतलम् ॥ १२ ॥
ततस्ते सागराः सर्वे समुपेत्य परस्परम् ।नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ॥ १३ ॥
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः ।ससमुद्रवनद्वीपा सनदीनदकन्दरा ।सपर्वतवनोद्देशा निखिलेन मही नृप ॥ १४ ॥
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव ।न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ॥ १५ ॥
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः ।उवाच वचनं सर्वांस्तदा दैववशान्नृप ॥ १६ ॥
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् ।यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः ॥ १७ ॥
प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः ।भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ॥ १८ ॥
अथापश्यन्त ते वीराः पृथिवीमवदारिताम् ।समासाद्य बिलं तच्च खनन्तः सगरात्मजाः ।कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा ॥ १९ ॥
स खन्यमानः सहितैः सागरैर्वरुणालयः ।अगच्छत्परमामार्तिं दार्यमाणः समन्ततः ॥ २० ॥
असुरोरगरक्षांसि सत्त्वानि विविधानि च ।आर्तनादमकुर्वन्त वध्यमानानि सागरैः ॥ २१ ॥
छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः ।प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ॥ २२ ॥
एवं हि खनतां तेषां समुद्रं मकरालयम् ।व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ॥ २३ ॥
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते ।विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः ।अपश्यन्त हयं तत्र विचरन्तं महीतले ॥ २४ ॥
कपिलं च महात्मानं तेजोराशिमनुत्तमम् ।तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् ॥ २५ ॥
« »