Click on words to see what they mean.

जनमेजय उवाच ।एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः ।धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥ १ ॥
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् ।किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ॥ २ ॥
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः ।वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥ ३ ॥
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् ।किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ॥ ४ ॥
कथं द्वादश वर्षाणि वने तेषां महात्मनाम् ।व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ॥ ५ ॥
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् ।पतिव्रता महाभागा सततं सत्यवादिनी ।वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ॥ ६ ॥
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन ।श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् ।कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥ ७ ॥
वैशंपायन उवाच ।एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः ।धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥ ८ ॥
वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा ।उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥ ९ ॥
इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश ।रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥ १० ॥
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः ।गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ।ऊचुर्विगतसंत्रासाः समागम्य परस्परम् ॥ ११ ॥
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः ।यत्र दुर्योधनः पापः सौबलेयेन पालितः ।कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ॥ १२ ॥
नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् ।यत्र पापसहायोऽयं पापो राज्यं बुभूषते ॥ १३ ॥
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः ।अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥ १४ ॥
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः ।साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥ १५ ॥
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः ।ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥ १६ ॥
एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च ।ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥ १७ ॥
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः ।वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥ १८ ॥
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः ।उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ॥ १९ ॥
भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् ।कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ॥ २० ॥
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः ।शुभाशुभाधिवासेन संसर्गं कुरुते यथा ॥ २१ ॥
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा ।पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ २२ ॥
मोहजालस्य योनिर्हि मूढैरेव समागमः ।अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥ २३ ॥
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः ।सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥ २४ ॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च ।तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥ २५ ॥
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु ।पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥ २६ ॥
असतां दर्शनात्स्पर्शात्संजल्पनसहासनात् ।धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः ॥ २७ ॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥ २८ ॥
ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः ।लोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः ॥ २९ ॥
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः ।इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ॥ ३० ॥
युधिष्ठिर उवाच ।धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः ।असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥ ३१ ॥
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः ।नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥ ३२ ॥
भीष्मः पितामहो राजा विदुरो जननी च मे ।सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥ ३३ ॥
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः ।युष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः ॥ ३४ ॥
निवर्ततागता दूरं समागमनशापिताः ।स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥ ३५ ॥
एतद्धि मम कार्याणां परमं हृदि संस्थितम् ।सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ॥ ३६ ॥
वैशंपायन उवाच ।तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः ।चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥ ३७ ॥
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः ।अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥ ३८ ॥
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः ।प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥ ३९ ॥
तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः ।ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ।उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ॥ ४० ॥
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः ।साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ।स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥ ४१ ॥
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे ।ब्रह्मघोषपुरस्कारः संजल्पः समजायत ॥ ४२ ॥
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः ।आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ॥ ४३ ॥
« »