Click on words to see what they mean.

वैशंपायन उवाच ।प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् ।वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः ।तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥ १ ॥
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः ।फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥ २ ॥
वनं च दोषबहुलं बहुव्यालसरीसृपम् ।परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥ ३ ॥
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् ।किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥ ४ ॥
ब्राह्मणा ऊचुः ।गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः ।नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ॥ ५ ॥
अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते ।विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥ ६ ॥
युधिष्ठिर उवाच ।ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः ।सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥ ७ ॥
आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा ।त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥ ८ ॥
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च ।दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥ ९ ॥
ब्राह्मणा ऊचुः ।अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव ।स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् ॥ १० ॥
अनुध्यानेन जप्येन विधास्यामः शिवं तव ।कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥ ११ ॥
युधिष्ठिर उवाच ।एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह ।न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥ १२ ॥
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् ।मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥ १३ ॥
वैशंपायन उवाच ।इत्युक्त्वा स नृपः शोचन्निषसाद महीतले ।तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः ।योगे सांख्ये च कुशलो राजानमिदमब्रवीत् ॥ १४ ॥
शोकस्थानसहस्राणि भयस्थानशतानि च ।दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १५ ॥
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु ।श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ १६ ॥
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् ।श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता ॥ १७ ॥
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च ।शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥ १८ ॥
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा ।आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥ १९ ॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् ।तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु ॥ २० ॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् ।दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते ॥ २१ ॥
तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् ।आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥ २२ ॥
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते ।मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥ २३ ॥
मानसेन हि दुःखेन शरीरमुपतप्यते ।अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ॥ २४ ॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना ।प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ॥ २५ ॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते ।स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ २६ ॥
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च ।शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ॥ २७ ॥
स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा ।अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ २८ ॥
कोटराग्निर्यथाशेषं समूलं पादपं दहेत् ।धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् ॥ २९ ॥
विप्रयोगे न तु त्यागी दोषदर्शी समागमात् ।विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ॥ ३० ॥
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् ।स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् ॥ ३१ ॥
ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु ।न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ ३२ ॥
रागाभिभूतः पुरुषः कामेन परिकृष्यते ।इच्छा संजायते तस्य ततस्तृष्णा प्रवर्तते ॥ ३३ ॥
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् ।अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ ३४ ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ ३५ ॥
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् ।विनाशयति संभूता अयोनिज इवानलः ॥ ३६ ॥
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति ।तथाकृतात्मा लोभेन सहजेन विनश्यति ॥ ३७ ॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ ३८ ॥
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ॥ ३९ ॥
अर्थ एव हि केषांचिदनर्थो भविता नृणाम् ।अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ।तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ॥ ४० ॥
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ।अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥ ४१ ॥
अर्थस्योपार्जने दुःखं पालने च क्षये तथा ।नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ॥ ४२ ॥
अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः ।दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥ ४३ ॥
असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः ।अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् ॥ ४४ ॥
तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः ।अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥ ४५ ॥
त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः ।न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥ ४६ ॥
अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते ।प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ ४७ ॥
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि ।धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ॥ ४८ ॥
युधिष्ठिर उवाच ।नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम ।भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ॥ ४९ ॥
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे ।भरणं पालनं चापि न कुर्यादनुयायिनाम् ॥ ५० ॥
संविभागो हि भूतानां सर्वेषामेव शिष्यते ।तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥ ५१ ॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ ५२ ॥
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् ।तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥ ५३ ॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् ॥ ५४ ॥
अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः ।पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः ॥ ५५ ॥
नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् ।न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ॥ ५६ ॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ।वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥ ५७ ॥
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः ।विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् ॥ ५८ ॥
एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे ।तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ॥ ५९ ॥
शौनक उवाच ।अहो बत महत्कष्टं विपरीतमिदं जगत् ।येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ ६० ॥
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु ।मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः ॥ ६१ ॥
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः ।विमूढसंज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ॥ ६२ ॥
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा ।तदा प्रादुर्भवत्येषां पूर्वसंकल्पजं मनः ॥ ६३ ॥
मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् ।तस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते ॥ ६४ ॥
ततः संकल्पवीर्येण कामेन विषयेषुभिः ।विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतंगवत् ॥ ६५ ॥
ततो विहारैराहारैर्मोहितश्च विशां पते ।महामोहमुखे मग्नो नात्मानमवबुध्यते ॥ ६६ ॥
एवं पतति संसारे तासु तास्विह योनिषु ।अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ॥ ६७ ॥
ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते ।जले भुवि तथाकाशे जायमानः पुनः पुनः ॥ ६८ ॥
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु ।ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ॥ ६९ ॥
यदिदं वेदवचनं कुरु कर्म त्यजेति च ।तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ॥ ७० ॥
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः ।अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ ७१ ॥
तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः ।कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ॥ ७२ ॥
उत्तरो देवयानस्तु सद्भिराचरितः सदा ।अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ॥ ७३ ॥
सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात् ।सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ॥ ७४ ॥
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् ।सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ।एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ॥ ७५ ॥
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः ।रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि ।योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ॥ ७६ ॥
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् ।तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ॥ ७७ ॥
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते ।तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ॥ ७८ ॥
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् ।तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ॥ ७९ ॥
« »