Click on words to see what they mean.

वैशंपायन उवाच ।वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे ।धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ॥ १ ॥
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् ।निःश्वसन्तमनेकाग्रमिति होवाच संजयः ॥ २ ॥
अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप ।प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ॥ ३ ॥
धृतराष्ट्र उवाच ।अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति ।पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः ॥ ४ ॥
संजय उवाच ।तवेदं सुकृतं राजन्महद्वैरं भविष्यति ।विनाशः सर्वलोकस्य सानुबन्धो भविष्यति ॥ ५ ॥
वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च ।पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् ॥ ६ ॥
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव ।सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ॥ ७ ॥
धृतराष्ट्र उवाच ।यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥ ८ ॥
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते ।अनयो नयसंकाशो हृदयान्नापसर्पति ॥ ९ ॥
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः ।उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते ॥ १० ॥
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् ।कालस्य बलमेतावद्विपरीतार्थदर्शनम् ॥ ११ ॥
आसादितमिदं घोरं तुमुलं लोमहर्षणम् ।पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ॥ १२ ॥
अयोनिजां रूपवतीं कुले जातां विभावरीम् ।को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ॥ १३ ॥
पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम् ।स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् ॥ १४ ॥
एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम् ।हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः ॥ १५ ॥
विहीनान्सर्वकामेभ्यो दासभाववशं गतान् ।धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ॥ १६ ॥
क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि ।दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ॥ १७ ॥
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी ।अपि शेषं भवेदद्य पुत्राणां मम संजय ॥ १८ ॥
भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः ।प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ॥ १९ ॥
अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः ।ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ॥ २० ॥
आसीन्निष्टानको घोरो निर्घातश्च महानभूत् ।दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् ।अपर्वणि महाघोरं प्रजानां जनयन्भयम् ॥ २१ ॥
तथैव रथशालासु प्रादुरासीद्धुताशनः ।ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये ॥ २२ ॥
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः ।तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् ॥ २३ ॥
प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय ।कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः ॥ २४ ॥
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः ।वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ॥ २५ ॥
अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः ।सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ॥ २६ ॥
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् ।एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता ॥ २७ ॥
एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा ।पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ॥ २८ ॥
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः ।वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः ॥ २९ ॥
तेन सत्याभिसंधेन वासुदेवेन रक्षिताः ।आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः ॥ ३० ॥
तेषां मध्ये महेष्वासो भीमसेनो महाबलः ।आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ॥ ३१ ॥
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः ।गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ ३२ ॥
तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः ।कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥ ३३ ॥
तथा हि बलवान्राजा जरासंधो महाद्युतिः ।बाहुप्रहरणेनैव भीमेन निहतो युधि ॥ ३४ ॥
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ॥ ३५ ॥
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः ।उक्तवान्न गृहीतं च मया पुत्रहितेप्सया ॥ ३६ ॥
« »