Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रायाद्विदुरोऽश्वैरुदारैर्महाजवैर्बलिभिः साधुदान्तैः ।बलान्नियुक्तो धृतराष्ट्रेण राज्ञा मनीषिणां पाण्डवानां सकाशम् ॥ १ ॥
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् ।प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ॥ २ ॥
स राजगृहमासाद्य कुबेरभवनोपमम् ।अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ॥ ३ ॥
तं वै राजा सत्यधृतिर्महात्मा अजातशत्रुर्विदुरं यथावत् ।पूजापूर्वं प्रतिगृह्याजमीढस्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ॥ ४ ॥
युधिष्ठिर उवाच ।विज्ञायते ते मनसो न प्रहर्षः कच्चित्क्षत्तः कुशलेनागतोऽसि ।कच्चित्पुत्राः स्थविरस्यानुलोमा वशानुगाश्चापि विशोऽपि कच्चित् ॥ ५ ॥
विदुर उवाच ।राजा महात्मा कुशली सपुत्र आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः ।प्रीतो राजन्पुत्रगणैर्विनीतैर्विशोक एवात्मरतिर्दृढात्मा ॥ ६ ॥
इदं तु त्वां कुरुराजोऽभ्युवाच पूर्वं पृष्ट्वा कुशलं चाव्ययं च ।इयं सभा त्वत्सभातुल्यरूपा भ्रातॄणां ते पश्य तामेत्य पुत्र ॥ ७ ॥
समागम्य भ्रातृभिः पार्थ तस्यां सुहृद्द्यूतं क्रियतां रम्यतां च ।प्रीयामहे भवतः संगमेन समागताः कुरवश्चैव सर्वे ॥ ८ ॥
दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा ।तान्द्रक्ष्यसे कितवान्संनिविष्टानित्यागतोऽहं नृपते तज्जुषस्व ॥ ९ ॥
युधिष्ठिर उवाच ।द्यूते क्षत्तः कलहो विद्यते नः को वै द्यूतं रोचयेद्बुध्यमानः ।किं वा भवान्मन्यते युक्तरूपं भवद्वाक्ये सर्व एव स्थिताः स्म ॥ १० ॥
विदुर उवाच ।जानाम्यहं द्यूतमनर्थमूलं कृतश्च यत्नोऽस्य मया निवारणे ।राजा तु मां प्राहिणोत्त्वत्सकाशं श्रुत्वा विद्वञ्श्रेय इहाचरस्व ॥ ११ ॥
युधिष्ठिर उवाच ।के तत्रान्ये कितवा दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः ।पृच्छामि त्वां विदुर ब्रूहि नस्तान्यैर्दीव्यामः शतशः संनिपत्य ॥ १२ ॥
विदुर उवाच ।गान्धारराजः शकुनिर्विशां पते राजातिदेवी कृतहस्तो मताक्षः ।विविंशतिश्चित्रसेनश्च राजा सत्यव्रतः पुरुमित्रो जयश्च ॥ १३ ॥
युधिष्ठिर उवाच ।महाभयाः कितवाः संनिविष्टा मायोपधा देवितारोऽत्र सन्ति ।धात्रा तु दिष्टस्य वशे किलेदं नादेवनं कितवैरद्य तैर्मे ॥ १४ ॥
नाहं राज्ञो धृतराष्ट्रस्य शासनान्न गन्तुमिच्छामि कवे दुरोदरम् ।इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थ मां यथा ॥ १५ ॥
न चाकामः शकुनिना देविताहं न चेन्मां धृष्णुराह्वयिता सभायाम् ।आहूतोऽहं न निवर्ते कदाचित्तदाहितं शाश्वतं वै व्रतं मे ॥ १६ ॥
वैशंपायन उवाच ।एवमुक्त्वा विदुरं धर्मराजः प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् ।प्रायाच्छ्वोभूते सगणः सानुयात्रः सह स्त्रीभिर्द्रौपदीमादिकृत्वा ॥ १७ ॥
दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् ।धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥ १८ ॥
इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः ।अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः ॥ १९ ॥
बाह्लिकेन रथं दत्तमास्थाय परवीरहा ।परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः ॥ २० ॥
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः ।धृतराष्ट्रेण चाहूतः कालस्य समयेन च ॥ २१ ॥
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ ।समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ॥ २२ ॥
तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च ।समियाय यथान्यायं द्रौणिना च विभुः सह ॥ २३ ॥
समेत्य च महाबाहुः सोमदत्तेन चैव ह ।दुर्योधनेन शल्येन सौबलेन च वीर्यवान् ॥ २४ ॥
ये चान्ये तत्र राजानः पूर्वमेव समागताः ।जयद्रथेन च तथा कुरुभिश्चापि सर्वशः ॥ २५ ॥
ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः ।प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ॥ २६ ॥
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् ।स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ॥ २७ ॥
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः ।ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ॥ २८ ॥
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः ।चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ॥ २९ ॥
ततो हर्षः समभवत्कौरवाणां विशां पते ।तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ॥ ३० ॥
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ ।ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः ॥ ३१ ॥
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव ।स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ॥ ३२ ॥
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् ।कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ॥ ३३ ॥
ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः ।कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ॥ ३४ ॥
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ ।उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः ॥ ३५ ॥
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् ।स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ॥ ३६ ॥
सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः ।सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् ॥ ३७ ॥
« »