Click on words to see what they mean.

शकुनिरुवाच ।यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे ।तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः ॥ १ ॥
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे ।अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये ॥ २ ॥
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत ।अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् ॥ ३ ॥
दुर्योधन उवाच ।अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् ।द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् ॥ ४ ॥
धृतराष्ट्र उवाच ।स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः ।तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ ५ ॥
दुर्योधन उवाच ।विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः ।पाण्डवानां हिते युक्तो न तथा मम कौरव ॥ ६ ॥
नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः ।मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥ ७ ॥
भयं परिहरन्मन्द आत्मानं परिपालयन् ।वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति ॥ ८ ॥
न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते ।यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥ ९ ॥
धृतराष्ट्र उवाच ।सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये ।वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ॥ १० ॥
अनर्थमर्थं मन्यसे राजपुत्र संग्रन्थनं कलहस्यातिघोरम् ।तद्वै प्रवृत्तं तु यथा कथंचिद्विमोक्षयेच्चाप्यसिसायकांश्च ॥ ११ ॥
दुर्योधन उवाच ।द्यूते पुराणैर्व्यवहारः प्रणीतस्तत्रात्ययो नास्ति न संप्रहारः ।तद्रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व ॥ १२ ॥
स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम् ।भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व ॥ १३ ॥
धृतराष्ट्र उवाच ।वाक्यं न मे रोचते यत्त्वयोक्तं यत्ते प्रियं तत्क्रियतां नरेन्द्र ।पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम् ॥ १४ ॥
दृष्टं ह्येतद्विदुरेणैवमेव सर्वं पूर्वं बुद्धिविद्यानुगेन ।तदेवैतदवशस्याभ्युपैति महद्भयं क्षत्रियबीजघाति ॥ १५ ॥
वैशंपायन उवाच ।एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च ।शशासोच्चैः पुरुषान्पुत्रवाक्ये स्थितो राजा दैवसंमूढचेताः ॥ १६ ॥
सहस्रस्तम्भां हेमवैडूर्यचित्रां शतद्वारां तोरणस्फाटिशृङ्गाम् ।सभामग्र्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः ॥ १७ ॥
श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तथा चक्रुराशु ।सर्वद्रव्याण्युपजह्रुः सभायां सहस्रशः शिल्पिनश्चापि युक्ताः ॥ १८ ॥
कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम् ।चित्रैर्हैमैरासनैरभ्युपेतामाचख्युस्ते तस्य राज्ञः प्रतीताः ॥ १९ ॥
ततो विद्वान्विदुरं मन्त्रिमुख्यमुवाचेदं धृतराष्ट्रो नरेन्द्रः ।युधिष्ठिरं राजपुत्रं हि गत्वा मद्वाक्येन क्षिप्रमिहानयस्व ॥ २० ॥
सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महार्हैः ।सा दृश्यतां भ्रातृभिः सार्धमेत्य सुहृद्द्यूतं वर्ततामत्र चेति ॥ २१ ॥
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः ।मत्वा च दुस्तरं दैवमेतद्राजा चकार ह ॥ २२ ॥
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः ।नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ॥ २३ ॥
नाभिनन्दामि नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद्बिभेमि ।पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्यादेतच्छङ्के द्यूतकृते नरेन्द्र ॥ २४ ॥
धृतराष्ट्र उवाच ।नेह क्षत्तः कलहस्तप्स्यते मां न चेद्दैवं प्रतिलोमं भविष्यत् ।धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रम् ॥ २५ ॥
तदद्य विदुर प्राप्य राजानं मम शासनात् ।क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ॥ २६ ॥
« »