Click on words to see what they mean.

शकुनिरुवाच ।उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः ।अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ॥ १ ॥
युधिष्ठिर उवाच ।निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः ।न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ॥ २ ॥
न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह ।शकुने मैव नो जैषीरमार्गेण नृशंसवत् ॥ ३ ॥
शकुनिरुवाच ।योऽन्वेति संख्यां निकृतौ विधिज्ञश्चेष्टास्वखिन्नः कितवोऽक्षजासु ।महामतिर्यश्च जानाति द्यूतं स वै सर्वं सहते प्रक्रियासु ॥ ४ ॥
अक्षग्लहः सोऽभिभवेत्परं नस्तेनैव कालो भवतीदमात्थ ।दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः ॥ ५ ॥
युधिष्ठिर उवाच ।एवमाहायमसितो देवलो मुनिसत्तमः ।इमानि लोकद्वाराणि यो वै संचरते सदा ॥ ६ ॥
इदं वै देवनं पापं मायया कितवैः सह ।धर्मेण तु जयो युद्धे तत्परं साधु देवनम् ॥ ७ ॥
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत ।अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् ॥ ८ ॥
शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे ।तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् ॥ ९ ॥
नाहं निकृत्या कामये सुखान्युत धनानि वा ।कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते ॥ १० ॥
शकुनिरुवाच ।श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर ।विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥ ११ ॥
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे ।देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ॥ १२ ॥
युधिष्ठिर उवाच ।आहूतो न निवर्तेयमिति मे व्रतमाहितम् ।विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ॥ १३ ॥
अस्मिन्समागमे केन देवनं मे भविष्यति ।प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् ॥ १४ ॥
दुर्योधन उवाच ।अहं दातास्मि रत्नानां धनानां च विशां पते ।मदर्थे देविता चायं शकुनिर्मातुलो मम ॥ १५ ॥
युधिष्ठिर उवाच ।अन्येनान्यस्य विषमं देवनं प्रतिभाति मे ।एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् ॥ १६ ॥
वैशंपायन उवाच ।उपोह्यमाने द्यूते तु राजानः सर्व एव ते ।धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ॥ १७ ॥
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः ।नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत ॥ १८ ॥
ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः ।सिंहासनानि भूरीणि विचित्राणि च भेजिरे ॥ १९ ॥
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः ।देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ॥ २० ॥
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः ।प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् ॥ २१ ॥
युधिष्ठिर उवाच ।अयं बहुधनो राजन्सागरावर्तसंभवः ।मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ॥ २२ ॥
एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव ।भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् ॥ २३ ॥
दुर्योधन उवाच ।सन्ति मे मणयश्चैव धनानि विविधानि च ।मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् ॥ २४ ॥
वैशंपायन उवाच ।ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् ।जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २५ ॥
« »