Click on words to see what they mean.

वैशंपायन उवाच ।ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः ।युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ॥ १ ॥
आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन ।यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ॥ २ ॥
सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा ।नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ॥ ३ ॥
ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् ।अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ।इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः ॥ ४ ॥
एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः ।उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् ॥ ५ ॥
एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः ।सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् ॥ ६ ॥
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् ।अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः ॥ ७ ॥
क्रीडतो भोजराजन्यानेष रैवतके गिरौ ।हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा ॥ ८ ॥
अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् ।पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ॥ ९ ॥
सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः ।भार्यामभ्यहरन्मोहादकामां तामितो गताम् ॥ १० ॥
एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् ।जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ॥ ११ ॥
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् ।दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते ॥ १२ ॥
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् ।कृतानि तु परोक्षं मे यानि तानि निबोधत ॥ १३ ॥
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् ।अवलेपाद्वधार्हस्य समग्रे राजमण्डले ॥ १४ ॥
रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः ।न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा ॥ १५ ॥
एवमादि ततः सर्वे सहितास्ते नराधिपाः ।वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् ॥ १६ ॥
ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् ।जहास स्वनवद्धासं प्रहस्येदमुवाच ह ॥ १७ ॥
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् ।विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ॥ १८ ॥
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् ।अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन ॥ १९ ॥
क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम ।क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति ॥ २० ॥
तथा ब्रुवत एवास्य भगवान्मधुसूदनः ।व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः ।स पपात महाबाहुर्वज्राहत इवाचलः ॥ २१ ॥
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः ।उत्पतन्तं महाराज गगनादिव भास्करम् ॥ २२ ॥
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् ।ववन्दे तत्तदा तेजो विवेश च नराधिप ॥ २३ ॥
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः ।यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ॥ २४ ॥
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः ।कृष्णेन निहते चैद्ये चचाल च वसुंधरा ॥ २५ ॥
ततः केचिन्महीपाला नाब्रुवंस्तत्र किंचन ।अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ॥ २६ ॥
हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः ।अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥ २७ ॥
रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः ।केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन् ॥ २८ ॥
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः ।ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः ॥ २९ ॥
पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् ।दमघोषात्मजं वीरं संसाधयत मा चिरम् ।तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ॥ ३० ॥
चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम् ।अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः ॥ ३१ ॥
ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् ।यूनां प्रीतिकरो राजन्संबभौ विपुलौजसः ॥ ३२ ॥
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् ।अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ॥ ३३ ॥
समापयामास च तं राजसूयं महाक्रतुम् ।तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः ।ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः ॥ ३४ ॥
ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम् ।समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत् ॥ ३५ ॥
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो ।आजमीढाजमीढानां यशः संवर्धितं त्वया ।कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ॥ ३६ ॥
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः ।स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ॥ ३७ ॥
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः ।यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ॥ ३८ ॥
राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः ।प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परंतपाः ।तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ॥ ३९ ॥
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः ।यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् ॥ ४० ॥
विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान् ।धनंजयो यज्ञसेनं महात्मानं महारथः ॥ ४१ ॥
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः ।द्रोणं च ससुतं वीरं सहदेवो महारथः ॥ ४२ ॥
नकुलः सुबलं राजन्सहपुत्रं समन्वयात् ।द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन् ॥ ४३ ॥
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः ।एवं संपूजितास्ते वै जग्मुर्विप्राश्च सर्वशः ॥ ४४ ॥
गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ ।युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ॥ ४५ ॥
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन ।राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ॥ ४६ ॥
तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम् ।तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम् ॥ ४७ ॥
समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम् ।उपादाय बलिं मुख्यं मामेव समुपस्थितम् ॥ ४८ ॥
न वयं त्वामृते वीर रंस्यामेह कथंचन ।अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी ॥ ४९ ॥
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् ।अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ॥ ५० ॥
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः ।सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ॥ ५१ ॥
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे ।सुभद्रां द्रौपदीं चैव सभाजयत केशवः ॥ ५२ ॥
निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान् ।स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ॥ ५३ ॥
ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् ।योजयित्वा महाराज दारुकः प्रत्युपस्थितः ॥ ५४ ॥
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् ।प्रदक्षिणमुपावृत्य समारुह्य महामनाः ।प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ॥ ५५ ॥
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः ।भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ॥ ५६ ॥
ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः ।अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ ५७ ॥
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते ।पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ।बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ॥ ५८ ॥
कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ ।अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ॥ ५९ ॥
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप ।एको दुर्योधनो राजा शकुनिश्चापि सौबलः ।तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ ॥ ६० ॥
« »