Click on words to see what they mean.

भीष्म उवाच ।नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् ।नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ॥ १ ॥
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः ।क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः ॥ २ ॥
एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् ।तमेव पुनरादातुमिच्छत्पृथुयशा हरिः ॥ ३ ॥
येनैष कुरुशार्दूल शार्दूल इव चेदिराट् ।गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ॥ ४ ॥
वैशंपायन उवाच ।ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा ।उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम् ॥ ५ ॥
शिशुपाल उवाच ।द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः ।यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ॥ ६ ॥
संस्तवाय मनो भीष्म परेषां रमते सदा ।यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ॥ ७ ॥
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् ।जायमानेन येनेयमभवद्दारिता मही ॥ ८ ॥
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले ।स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ॥ ९ ॥
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ ।स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ ॥ १० ॥
ययोरन्यतरो भीष्म संक्रुद्धः सचराचराम् ।इमां वसुमतीं कुर्यादशेषामिति मे मतिः ॥ ११ ॥
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् ।अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि ॥ १२ ॥
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् ।स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा ॥ १३ ॥
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप ।पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ॥ १४ ॥
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ १५ ॥
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः ।केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ॥ १६ ॥
कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि ।समावेशयसे सर्वं जगत्केवलकाम्यया ॥ १७ ॥
अथ वैषा न ते भक्तिः प्रकृतिं याति भारत ।मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा ॥ १८ ॥
भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे ।भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ॥ १९ ॥
मा साहसमितीदं सा सततं वाशते किल ।साहसं चात्मनातीव चरन्ती नावबुध्यते ॥ २० ॥
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः ।दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ॥ २१ ॥
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् ।तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे ॥ २२ ॥
इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् ।लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ॥ २३ ॥
वैशंपायन उवाच ।ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः ।उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ॥ २४ ॥
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् ।योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् ॥ २५ ॥
एवमुक्ते तु भीष्मेण ततः संचुक्रुधुर्नृपाः ।केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ॥ २६ ॥
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः ।पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ॥ २७ ॥
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः ।सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ॥ २८ ॥
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः ।उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ॥ २९ ॥
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये ।यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ॥ ३० ॥
पशुवद्घातनं वा मे दहनं वा कटाग्निना ।क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥ ३१ ॥
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः ।यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ॥ ३२ ॥
कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् ।यावदस्यैव देवस्य देहं विशतु पातितः ॥ ३३ ॥
« »