Click on words to see what they mean.

वैशंपायन उवाच ।वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ ।शनैर्ददर्श तां सर्वां सभां शकुनिना सह ॥ १ ॥
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः ।न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥ २ ॥
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः ।स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया ॥ ३ ॥
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः ।दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥ ४ ॥
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् ।वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले ॥ ५ ॥
जले निपतितं दृष्ट्वा किंकरा जहसुर्भृशम् ।वासांसि च शुभान्यस्मै प्रददू राजशासनात् ॥ ६ ॥
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ।अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥ ७ ॥
नामर्षयत्ततस्तेषामवहासममर्षणः ।आकारं रक्षमाणस्तु न स तान्समुदैक्षत ॥ ८ ॥
पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् ।आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः ॥ ९ ॥
द्वारं च विवृताकारं ललाटेन समाहनत् ।संवृतं चेति मन्वानो द्वारदेशादुपारमत् ॥ १० ॥
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते ।पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥ ११ ॥
अप्रहृष्टेन मनसा राजसूये महाक्रतौ ।प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥ १२ ॥
पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः ।दुर्योधनस्य नृपतेः पापा मतिरजायत ॥ १३ ॥
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् ।कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥ १४ ॥
महिमानं परं चापि पाण्डवानां महात्मनाम् ।दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ॥ १५ ॥
स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन् ।श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥ १६ ॥
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा ।नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥ १७ ॥
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत ।दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि ॥ १८ ॥
दुर्योधन उवाच ।दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् ।जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥ १९ ॥
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल ।यथा शक्रस्य देवेषु तथाभूतं महाद्युते ॥ २० ॥
अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम् ।शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ॥ २१ ॥
पश्य सात्वतमुख्येन शिशुपालं निपातितम् ।न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ॥ २२ ॥
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना ।क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति ॥ २३ ॥
वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम् ।सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् ॥ २४ ॥
तथा हि रत्नान्यादाय विविधानि नृपा नृपम् ।उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः ॥ २५ ॥
श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे ।अमर्षवशमापन्नो दह्येऽहमतथोचितः ॥ २६ ॥
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् ।अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् ॥ २७ ॥
को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान् ।सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च ॥ २८ ॥
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि ।योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥ २९ ॥
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् ।यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत् ॥ ३० ॥
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् ।सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥ ३१ ॥
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा ॥ ३२ ॥
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल ।तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् ॥ ३३ ॥
तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् ।धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः ॥ ३४ ॥
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् ।रक्षिभिश्चावहासं तं परितप्ये यथाग्निना ॥ ३५ ॥
स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् ।अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥ ३६ ॥
« »