Click on words to see what they mean.

वैशंपायन उवाच ।तथैव सहदेवोऽपि धर्मराजेन पूजितः ।महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् ॥ १ ॥
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः ।मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ॥ २ ॥
अधिराजाधिपं चैव दन्तवक्रं महाहवे ।जिगाय करदं चैव स्वराज्ये संन्यवेशयत् ॥ ३ ॥
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ।तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ॥ ४ ॥
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा ।तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ॥ ५ ॥
नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत् ।प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ॥ ६ ॥
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् ।ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ॥ ७ ॥
चक्रे तत्र स संग्रामं सह भोजेन भारत ।स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ॥ ८ ॥
करांस्तेभ्य उपादाय रत्नानि विविधानि च ।ततस्तैरेव सहितो नर्मदामभितो ययौ ॥ ९ ॥
विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ ।जिगाय समरे वीरावाश्विनेयः प्रतापवान् ॥ १० ॥
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ ।तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ॥ ११ ॥
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् ।ततोऽस्य सुमहद्युद्धमासीद्भीरुभयंकरम् ॥ १२ ॥
सैन्यक्षयकरं चैव प्राणानां संशयाय च ।चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ॥ १३ ॥
ततो हया रथा नागाः पुरुषाः कवचानि च ।प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा ॥ १४ ॥
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः ।नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ॥ १५ ॥
जनमेजय उवाच ।किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि ।सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ॥ १६ ॥
वैशंपायन उवाच ।तत्र माहिष्मतीवासी भगवान्हव्यवाहनः ।श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः ॥ १७ ॥
नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत् ।तदा ब्राह्मणरूपेण चरमाणो यदृच्छया ॥ १८ ॥
तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा ।प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः ॥ १९ ॥
तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् ।चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः ॥ २० ॥
वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः ।अभयं च स जग्राह स्वसैन्ये वै महीपतिः ॥ २१ ॥
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः ।जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना ॥ २२ ॥
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह ।बभूवुरनभिग्राह्या योषितश्छन्दतः किल ॥ २३ ॥
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे ।स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत ॥ २४ ॥
वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम ।भयादग्नेर्महाराज तदा प्रभृति सर्वदा ॥ २५ ॥
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् ।परीतमग्निना राजन्नाकम्पत यथा गिरिः ॥ २६ ॥
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः ।त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते ॥ २७ ॥
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक ।पावनात्पावकश्चासि वहनाद्धव्यवाहनः ॥ २८ ॥
वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि ।यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन ॥ २९ ॥
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् ।विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् ॥ ३० ॥
प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत ।न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः ॥ ३१ ॥
तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम् ।सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः ॥ ३२ ॥
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया ।वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च ॥ ३३ ॥
मया तु रक्षितव्येयं पुरी भरतसत्तम ।यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति ।ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ॥ ३४ ॥
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः ।पूजयामास माद्रेयः पावकं पुरुषर्षभः ॥ ३५ ॥
पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा ।सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् ॥ ३६ ॥
प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् ।माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् ॥ ३७ ॥
त्रैपुरं स वशे कृत्वा राजानममितौजसम् ।निजग्राह महाबाहुस्तरसा पोतनेश्वरम् ॥ ३८ ॥
आहृतिं कौशिकाचार्यं यत्नेन महता ततः ।वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा ॥ ३९ ॥
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे ।राज्ञे भोजकटस्थाय महामात्राय धीमते ॥ ४० ॥
भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै ।स चास्य ससुतो राजन्प्रतिजग्राह शासनम् ॥ ४१ ॥
प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च ।ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः ॥ ४२ ॥
ततः शूर्पारकं चैव गणं चोपकृताह्वयम् ।वशे चक्रे महातेजा दण्डकांश्च महाबलः ॥ ४३ ॥
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् ।निषादान्पुरुषादांश्च कर्णप्रावरणानपि ॥ ४४ ॥
ये च कालमुखा नाम नरा राक्षसयोनयः ।कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा ॥ ४५ ॥
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा ।तिमिंगिलं च नृपतिं वशे चक्रे महामतिः ॥ ४६ ॥
एकपादांश्च पुरुषान्केवलान्वनवासिनः ।नगरीं संजयन्तीं च पिच्छण्डं करहाटकम् ।दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ ४७ ॥
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः ।अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् ॥ ४८ ॥
अन्ताखीं चैव रोमां च यवनानां पुरं तथा ।दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ ४९ ॥
भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः ।प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने ।विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः ॥ ५० ॥
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् ।तच्च कालकृतं धीमानन्वमन्यत स प्रभुः ॥ ५१ ॥
ततः संप्रेषयामास रत्नानि विविधानि च ।चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च ॥ ५२ ॥
वासांसि च महार्हाणि मणींश्चैव महाधनान् ।न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् ॥ ५३ ॥
एवं निर्जित्य तरसा सान्त्वेन विजयेन च ।करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः ॥ ५४ ॥
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ ।कृतकर्मा सुखं राजन्नुवास जनमेजय ॥ ५५ ॥
« »