Click on words to see what they mean.

वैशंपायन उवाच ।ततः कुमारविषये श्रेणिमन्तमथाजयत् ।कोसलाधिपतिं चैव बृहद्बलमरिंदमः ॥ १ ॥
अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् ।अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा ॥ २ ॥
ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् ।मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः ॥ ३ ॥
ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् ।सर्वमल्पेन कालेन देशं चक्रे वशे बली ॥ ४ ॥
एवं बहुविधान्देशान्विजित्य पुरुषर्षभः ।उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् ।पाण्डवः सुमहावीर्यो बलेन बलिनां वरः ॥ ५ ॥
स काशिराजं समरे सुबन्धुमनिवर्तिनम् ।वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः ॥ ६ ॥
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् ।युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः ॥ ७ ॥
ततो मत्स्यान्महातेजा मलयांश्च महाबलान् ।अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः ॥ ८ ॥
निवृत्य च महाबाहुर्मदर्वीकं महीधरम् ।सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः ।वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ॥ ९ ॥
भर्गाणामधिपं चैव निषादाधिपतिं तथा ।विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् ॥ १० ॥
ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः ।तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ॥ ११ ॥
शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः ।वैदेहकं च राजानं जनकं जगतीपतिम् ।विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा ॥ १२ ॥
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् ।किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः ॥ १३ ॥
ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् ।विजित्य युधि कौन्तेयो मागधानुपयाद्बली ॥ १४ ॥
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् ।तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् ॥ १५ ॥
जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह ।तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली ॥ १६ ॥
स कम्पयन्निव महीं बलेन चतुरङ्गिणा ।युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ॥ १७ ॥
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत ।ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ॥ १८ ॥
अथ मोदागिरिं चैव राजानं बलवत्तरम् ।पाण्डवो बाहुवीर्येण निजघान महामृधे ॥ १९ ॥
ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् ।कौशिकीकच्छनिलयं राजानं च महौजसम् ॥ २० ॥
उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ ।निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ॥ २१ ॥
समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् ।ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा ॥ २२ ॥
सुह्मानामधिपं चैव ये च सागरवासिनः ।सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ॥ २३ ॥
एवं बहुविधान्देशान्विजित्य पवनात्मजः ।वसु तेभ्य उपादाय लौहित्यमगमद्बली ॥ २४ ॥
स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः ।करमाहारयामास रत्नानि विविधानि च ॥ २५ ॥
चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् ।काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् ॥ २६ ॥
स कोटिशतसंख्येन धनेन महता तदा ।अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् ॥ २७ ॥
इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः ।निवेदयामास तदा धर्मराजाय तद्धनम् ॥ २८ ॥
« »