Click on words to see what they mean.

वैशंपायन उवाच ।एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् ।धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ॥ १ ॥
महता बलचक्रेण परराष्ट्रावमर्दिना ।वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः ॥ २ ॥
स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् ।पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः ॥ ३ ॥
ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः ।विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः ॥ ४ ॥
तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् ।कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् ॥ ५ ॥
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परंतपः ।अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ॥ ६ ॥
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः ।सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ॥ ७ ॥
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् ।जिगाय समरे वीरो बलेन बलिनां वरः ॥ ८ ॥
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा ।पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः ॥ ९ ॥
ततो दक्षिणमागम्य पुलिन्दनगरं महत् ।सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ॥ १० ॥
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः ।शिशुपालं महावीर्यमभ्ययाज्जनमेजय ॥ ११ ॥
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् ।उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परंतपः ॥ १२ ॥
तौ समेत्य महाराज कुरुचेदिवृषौ तदा ।उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् ॥ १३ ॥
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते ।उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ ॥ १४ ॥
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् ।स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः ॥ १५ ॥
ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः ।सत्कृतः शिशुपालेन ययौ सबलवाहनः ॥ १६ ॥
« »