Click on words to see what they mean.

वैशंपायन उवाच ।ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः ।चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत ॥ १ ॥
राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् ।यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ॥ २ ॥
हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः ।यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ॥ ३ ॥
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः ।प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ॥ ४ ॥
स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् ।आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सोऽसकृत् ॥ ५ ॥
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् ।किं हितं सर्वलोकानां भवेदिति मनो दधे ॥ ६ ॥
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः ।अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥ ७ ॥
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः ।न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ॥ ८ ॥
स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः ।राजसूयं प्रति तदा पुनः पुनरपृच्छत ॥ ९ ॥
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा ।युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ॥ १० ॥
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति ।तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति ॥ ११ ॥
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन ।राजसूयस्य समयं मन्यन्ते सुहृदस्तव ॥ १२ ॥
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा ।साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः ॥ १३ ॥
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् ।अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ॥ १४ ॥
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् ।अविचार्य महाराज राजसूये मनः कुरु ॥ १५ ॥
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् ।स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते ।धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा ॥ १६ ॥
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् ।पुनः पुनर्मनो दध्रे राजसूयाय भारत ॥ १७ ॥
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः ।धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः ॥ १८ ॥
युधिष्ठिर उवाच ।इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः ।श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् ॥ १९ ॥
वैशंपायन उवाच ।एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन ।इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् ।अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ॥ २० ॥
अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा ।मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ॥ २१ ॥
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् ।भूयो विममृशे पार्थो लोकानां हितकाम्यया ॥ २२ ॥
सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौ ।विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति ॥ २३ ॥
न हि यज्ञसमारम्भः केवलात्मविपत्तये ।भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ॥ २४ ॥
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् ।सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ॥ २५ ॥
अप्रमेयं महाबाहुं कामाज्जातमजं नृषु ।पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः ॥ २६ ॥
नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम् ।न स किंचिन्न विषहेदिति कृष्णममन्यत ॥ २७ ॥
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ।गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ॥ २८ ॥
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् ।द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ॥ २९ ॥
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः ।इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा ॥ ३० ॥
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः ।इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ॥ ३१ ॥
स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः ।भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ॥ ३२ ॥
प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा ।अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः ॥ ३३ ॥
तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् ।धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् ॥ ३४ ॥
युधिष्ठिर उवाच ।प्रार्थितो राजसूयो मे न चासौ केवलेप्सया ।प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः ॥ ३५ ॥
यस्मिन्सर्वं संभवति यश्च सर्वत्र पूज्यते ।यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ॥ ३६ ॥
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे ।तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ॥ ३७ ॥
केचिद्धि सौहृदादेव दोषं न परिचक्षते ।अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ॥ ३८ ॥
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् ।एवंप्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ॥ ३९ ॥
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च ।परमं नः क्षमं लोके यथावद्वक्तुमर्हसि ॥ ४० ॥
« »