Click on words to see what they mean.

नारद उवाच ।पुरा देवयुगे राजन्नादित्यो भगवान्दिवः ।आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ॥ १ ॥
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः ।सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव ॥ २ ॥
अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ ।अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् ॥ ३ ॥
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन ।दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् ॥ ४ ॥
भगवन्द्रष्टुमिच्छामि पितामहसभामहम् ।येन सा तपसा शक्या कर्मणा वापि गोपते ॥ ५ ॥
औषधैर्वा तथा युक्तैरुत वा मायया यया ।तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् ॥ ६ ॥
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् ।अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम् ॥ ७ ॥
एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप ।क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ॥ ८ ॥
न वेद परिमाणं वा संस्थानं वापि भारत ।न च रूपं मया तादृग्दृष्टपूर्वं कदाचन ॥ ९ ॥
सुसुखा सा सभा राजन्न शीता न च घर्मदा ।न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत ॥ १० ॥
नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः ।स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥ ११ ॥
अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा ।दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ॥ १२ ॥
तस्यां स भगवानास्ते विदधद्देवमायया ।स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः ॥ १३ ॥
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् ।दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा ॥ १४ ॥
भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः ।मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ॥ १५ ॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत ।प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ॥ १६ ॥
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् ।वायवः क्रतवश्चैव संकल्पः प्राण एव च ॥ १७ ॥
एते चान्ये च बहवः स्वयंभुवमुपस्थिताः ।अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ॥ १८ ॥
आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा ।विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥ १९ ॥
शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च ।शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥ २० ॥
मन्त्रो रथंतरश्चैव हरिमान्वसुमानपि ।आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः ॥ २१ ॥
मरुतो विश्वकर्मा च वसवश्चैव भारत ।तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ॥ २२ ॥
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव ।अथर्ववेदश्च तथा पर्वाणि च विशां पते ॥ २३ ॥
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः ।ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः ॥ २४ ॥
सावित्री दुर्गतरणी वाणी सप्तविधा तथा ।मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥ २५ ॥
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा ।भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते ॥ २६ ॥
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च ।अर्धमासाश्च मासाश्च ऋतवः षट्च भारत ॥ २७ ॥
संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः ।कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम् ॥ २८ ॥
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा ।कालका सुरभिर्देवी सरमा चाथ गौतमी ॥ २९ ॥
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि ।विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ॥ ३० ॥
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा ।सुपर्णनागपशवः पितामहमुपासते ॥ ३१ ॥
देवो नारायणस्तस्यां तथा देवर्षयश्च ये ।ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा ॥ ३२ ॥
यच्च किंचित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् ।सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप ॥ ३३ ॥
अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् ।प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ॥ ३४ ॥
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः ।प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् ॥ ३५ ॥
अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा ।यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ॥ ३६ ॥
महाभागानमितधीर्ब्रह्मा लोकपितामहः ।दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ॥ ३७ ॥
प्रतिगृह्य च विश्वात्मा स्वयंभूरमितप्रभः ।सान्त्वमानार्थसंभोगैर्युनक्ति मनुजाधिप ॥ ३८ ॥
तथा तैरुपयातैश्च प्रतियातैश्च भारत ।आकुला सा सभा तात भवति स्म सुखप्रदा ॥ ३९ ॥
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता ।ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा ॥ ४० ॥
सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा ।सभेयं राजशार्दूल मनुष्येषु यथा तव ॥ ४१ ॥
एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव ।तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा ॥ ४२ ॥
युधिष्ठिर उवाच ।प्रायशो राजलोकस्ते कथितो वदतां वर ।वैवस्वतसभायां तु यथा वदसि वै प्रभो ॥ ४३ ॥
वरुणस्य सभायां तु नागास्ते कथिता विभो ।दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा ॥ ४४ ॥
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा ।गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ॥ ४५ ॥
पितामहसभायां तु कथितास्ते महर्षयः ।सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि ॥ ४६ ॥
शतक्रतुसभायां तु देवाः संकीर्तिता मुने ।उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ॥ ४७ ॥
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने ।कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः ॥ ४८ ॥
किं कर्म तेनाचरितं तपो वा नियतव्रतम् ।येनासौ सह शक्रेण स्पर्धते स्म महायशाः ॥ ४९ ॥
पितृलोकगतश्चापि त्वया विप्र पिता मम ।दृष्टः पाण्डुर्महाभागः कथं चासि समागतः ॥ ५० ॥
किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् ।त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे ॥ ५१ ॥
नारद उवाच ।यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो ।तत्तेऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः ॥ ५२ ॥
स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम् ।तस्य सर्वे महीपालाः शासनावनताः स्थिताः ॥ ५३ ॥
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् ।शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर ॥ ५४ ॥
स विजित्य महीं सर्वां सशैलवनकाननाम् ।आजहार महाराज राजसूयं महाक्रतुम् ॥ ५५ ॥
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया ।द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ॥ ५६ ॥
प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः ।यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् ॥ ५७ ॥
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा ।प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान् ॥ ५८ ॥
भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः ।रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् ।तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ॥ ५९ ॥
एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते ।तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ ॥ ६० ॥
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् ।अभिषिक्तः स शुशुभे साम्राज्येन नराधिप ॥ ६१ ॥
ये चान्येऽपि महीपाला राजसूयं महाक्रतुम् ।यजन्ते ते महेन्द्रेण मोदन्ते सह भारत ॥ ६२ ॥
ये चापि निधनं प्राप्ताः संग्रामेष्वपलायिनः ।ते तत्सदः समासाद्य मोदन्ते भरतर्षभ ॥ ६३ ॥
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् ।तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः ॥ ६४ ॥
पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः ।हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ॥ ६५ ॥
समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः ।राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत ॥ ६६ ॥
तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पाण्डव ।गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् ॥ ६७ ॥
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् ।छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ॥ ६८ ॥
युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् ।किंचिदेव निमित्तं च भवत्यत्र क्षयावहम् ॥ ६९ ॥
एतत्संचिन्त्य राजेन्द्र यत्क्षमं तत्समाचर ।अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे ।भव एधस्व मोदस्व दानैस्तर्पय च द्विजान् ॥ ७० ॥
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि ।आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ॥ ७१ ॥
वैशंपायन उवाच ।एवमाख्याय पार्थेभ्यो नारदो जनमेजय ।जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ॥ ७२ ॥
गते तु नारदे पार्थो भ्रातृभिः सह कौरव ।राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत ॥ ७३ ॥
« »