Click on words to see what they mean.

श्रीकृष्ण उवाच ।सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि ।जानतस्त्वेव ते सर्वं किंचिद्वक्ष्यामि भारत ॥ १ ॥
जामदग्न्येन रामेण क्षत्रं यदवशेषितम् ।तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम् ॥ २ ॥
कृतोऽयं कुलसंकल्पः क्षत्रियैर्वसुधाधिप ।निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ ॥ ३ ॥
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते ।राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि ॥ ४ ॥
ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः ।तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥ ५ ॥
ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् ।भजते च महाराज विस्तरः स चतुर्दिशम् ॥ ६ ॥
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते ।सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत ॥ ७ ॥
चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् ।स साम्राज्यं जरासंधः प्राप्तो भवति योनितः ॥ ८ ॥
तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः ।राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ॥ ९ ॥
तमेव च महाराज शिष्यवत्समुपस्थितः ।वक्रः करूषाधिपतिर्मायायोधी महाबलः ॥ १० ॥
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ ।जरासंधं महावीर्यं तौ हंसडिभकावुभौ ॥ ११ ॥
दन्तवक्रः करूषश्च कलभो मेघवाहनः ।मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः ॥ १२ ॥
मुरं च नरकं चैव शास्ति यो यवनाधिपौ ।अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥ १३ ॥
भगदत्तो महाराज वृद्धस्तव पितुः सखा ।स वाचा प्रणतस्तस्य कर्मणा चैव भारत ॥ १४ ॥
स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि ।प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः ॥ १५ ॥
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः ।स ते संनतिमानेकः स्नेहतः शत्रुतापनः ॥ १६ ॥
जरासंधं गतस्त्वेवं पुरा यो न मया हतः ।पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः ॥ १७ ॥
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् ।आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ॥ १८ ॥
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः ।पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः ॥ १९ ॥
चतुर्युः स महाराज भोज इन्द्रसखो बली ।विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् ॥ २० ॥
भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि ।स भक्तो मागधं राजा भीष्मकः परवीरहा ॥ २१ ॥
प्रियाण्याचरतः प्रह्वान्सदा संबन्धिनः सतः ।भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥ २२ ॥
न कुलं न बलं राजन्नभिजानंस्तथात्मनः ।पश्यमानो यशो दीप्तं जरासंधमुपाश्रितः ॥ २३ ॥
उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो ।जरासंधभयादेव प्रतीचीं दिशमाश्रिताः ॥ २४ ॥
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः ।सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह ॥ २५ ॥
शाल्वेयानां च राजानः सोदर्यानुचरैः सह ।दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः ॥ २६ ॥
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः ।मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ॥ २७ ॥
तथैव सर्वपाञ्चाला जरासंधभयार्दिताः ।स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम् ॥ २८ ॥
कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् ।बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥ २९ ॥
अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले ।बलेन तेन स ज्ञातीनभिभूय वृथामतिः ॥ ३० ॥
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् ।भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना ॥ ३१ ॥
ज्ञातित्राणमभीप्सद्भिरस्मत्संभावना कृता ।दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा ॥ ३२ ॥
संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् ।हतौ कंससुनामानौ मया रामेण चाप्युत ॥ ३३ ॥
भये तु समुपक्रान्ते जरासंधे समुद्यते ।मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥ ३४ ॥
अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः ।न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥ ३५ ॥
तस्य ह्यमरसंकाशौ बलेन बलिनां वरौ ।नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ ॥ ३६ ॥
तावुभौ सहितौ वीरौ जरासंधश्च वीर्यवान् ।त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ ३७ ॥
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः ।तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥ ३८ ॥
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः ।स चान्यैः सहितो राजन्संग्रामेऽष्टादशावरैः ॥ ३९ ॥
हतो हंस इति प्रोक्तमथ केनापि भारत ।तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत ॥ ४० ॥
विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे ।इत्येतां मतिमास्थाय डिभको निधनं गतः ॥ ४१ ॥
तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः ।प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत ॥ ४२ ॥
तौ स राजा जरासंधः श्रुत्वाप्सु निधनं गतौ ।स्वपुरं शूरसेनानां प्रययौ भरतर्षभ ॥ ४३ ॥
ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे ।पुनरानन्दिताः सर्वे मथुरायां वसामहे ॥ ४४ ॥
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना ।कंसभार्या जरासंधं दुहिता मागधं नृपम् ॥ ४५ ॥
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता ।पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम ॥ ४६ ॥
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् ।संस्मरन्तो विमनसो व्यपयाता नराधिप ॥ ४७ ॥
पृथक्त्वेन द्रुता राजन्संक्षिप्य महतीं श्रियम् ।प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः ॥ ४८ ॥
इति संचिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः ।कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ॥ ४९ ॥
पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप ।तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ॥ ५० ॥
स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुंगवाः ।तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ॥ ५१ ॥
आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च ।माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ॥ ५२ ॥
एवं वयं जरासंधादादितः कृतकिल्बिषाः ।सामर्थ्यवन्तः संबन्धाद्भवन्तं समुपाश्रिताः ॥ ५३ ॥
त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि ।योजनान्ते शतद्वारं विक्रमक्रमतोरणम् ।अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ॥ ५४ ॥
अष्टादश सहस्राणि व्रातानां सन्ति नः कुले ।आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः ॥ ५५ ॥
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः ।अहं च रौहिणेयश्च साम्बः शौरिसमो युधि ॥ ५६ ॥
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे ।कृतवर्मा अनाधृष्टिः समीकः समितिंजयः ॥ ५७ ॥
कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः ।पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥ ५८ ॥
लोकसंहनना वीरा वीर्यवन्तो महाबलाः ।स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः ॥ ५९ ॥
स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम ।क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ॥ ६० ॥
न तु शक्यं जरासंधे जीवमाने महाबले ।राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम ॥ ६१ ॥
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे ।कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ॥ ६२ ॥
सोऽपि राजा जरासंधो यियक्षुर्वसुधाधिपैः ।आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः ॥ ६३ ॥
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् ।पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ॥ ६४ ॥
वयं चैव महाराज जरासंधभयात्तदा ।मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् ॥ ६५ ॥
यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि ।यतस्व तेषां मोक्षाय जरासंधवधाय च ॥ ६६ ॥
समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन ।राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥ ६७ ॥
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ ।एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ॥ ६८ ॥
« »