Click on words to see what they mean.

वैशंपायन उवाच ।स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे ।आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः ॥ १ ॥
स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम् ।तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥ २ ॥
तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु ।समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥ ३ ॥
नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम् ।नदी वैतरणी चैव कूटशाल्मलिना सह ॥ ४ ॥
लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः ।विकृतानि शरीराणि यानि तत्र समन्ततः ।ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् ॥ ५ ॥
ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः ।ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥ ६ ॥
मरुतः सह शक्रेण वसवश्चाश्विनौ सह ।साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः ॥ ७ ॥
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः ।यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥ ८ ॥
ततः शक्रः सुरपतिः श्रिया परमया युतः ।युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥ ९ ॥
युधिष्ठिर महाबाहो प्रीता देवगणास्तव ।एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ।सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव ॥ १० ॥
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम ।अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥ ११ ॥
शुभानामशुभानां च द्वौ राशी पुरुषर्षभ ।यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ।पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः ॥ १२ ॥
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते ।तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ॥ १३ ॥
व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति ।व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥ १४ ॥
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा ।द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः ॥ १५ ॥
आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात् ।स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे ।सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ ॥ १६ ॥
कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः ।स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥ १७ ॥
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो ।स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ॥ १८ ॥
भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान् ।स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ॥ १९ ॥
अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव ।विहरस्व मया सार्धं गतशोको निरामयः ॥ २० ॥
कर्मणां तात पुण्यानां जितानां तपसा स्वयम् ।दानानां च महाबाहो फलं प्राप्नुहि पाण्डव ॥ २१ ॥
अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि ।उपसेवन्तु कल्याणं विरजोम्बरवाससः ॥ २२ ॥
राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान् ।प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत् ॥ २३ ॥
उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर ।हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि ॥ २४ ॥
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः ।दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥ २५ ॥
एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी ।आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि ॥ २६ ॥
अत्र स्नातस्य ते भावो मानुषो विगमिष्यति ।गतशोको निरायासो मुक्तवैरो भविष्यसि ॥ २७ ॥
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् ।धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥ २८ ॥
भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक ।मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च ॥ २९ ॥
एषा तृतीया जिज्ञासा तव राजन्कृता मया ।न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः ॥ ३० ॥
पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति ।अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ॥ ३१ ॥
सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत ।श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः ॥ ३२ ॥
इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि ।विशुद्धोऽसि महाभाग सुखी विगतकल्मषः ॥ ३३ ॥
न च ते भ्रातरः पार्थ नरकस्था विशां पते ।मायैषा देवराजेन महेन्द्रेण प्रयोजिता ॥ ३४ ॥
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ।ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ॥ ३५ ॥
न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ ।कर्णो वा सत्यवाक्शूरो नरकार्हाश्चिरं नृप ॥ ३६ ॥
न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर ।एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् ॥ ३७ ॥
एवमुक्तः स राजर्षिस्तव पूर्वपितामहः ।जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः ॥ ३८ ॥
गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् ।अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् ॥ ३९ ॥
ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः ।निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः ॥ ४० ॥
ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः ।धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः ॥ ४१ ॥
« »