Click on words to see what they mean.

युधिष्ठिर उवाच ।नेह पश्यामि विबुधा राधेयममितौजसम् ।भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥ १ ॥
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः ।राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥ २ ॥
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः ।तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥ ३ ॥
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः ।स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥ ४ ॥
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः ।न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा ॥ ५ ॥
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि ।कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥ ६ ॥
इदं च परितप्यामि पुनः पुनरहं सुराः ।यन्मातुः सदृशौ पादौ तस्याहममितौजसः ॥ ७ ॥
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् ।न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥ ८ ॥
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् ।अविज्ञातो मया योऽसौ घातितः सव्यसाचिना ॥ ९ ॥
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम ।अर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ ॥ १० ॥
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् ।न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः ॥ ११ ॥
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः ।यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम ॥ १२ ॥
देवा ऊचुः ।यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् ।प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥ १३ ॥
वैशंपायन उवाच ।इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् ।युधिष्ठिरस्य सुहृदो दर्शयेति परंतप ॥ १४ ॥
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः ।सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥ १५ ॥
अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः ।पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥ १६ ॥
तमसा संवृतं घोरं केशशैवलशाद्वलम् ।युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् ॥ १७ ॥
दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् ।इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥ १८ ॥
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् ।ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥ १९ ॥
अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम् ।सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥ २० ॥
मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः ।निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः ॥ २१ ॥
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् ।जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् ॥ २२ ॥
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् ।असिपत्रवनं चैव निशितक्षुरसंवृतम् ॥ २३ ॥
करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् ।लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥ २४ ॥
कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् ।ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् ॥ २५ ॥
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह ।कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् ॥ २६ ॥
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि ।देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥ २७ ॥
स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् ।देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव ॥ २८ ॥
निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः ।यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ॥ २९ ॥
युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः ।निवर्तने धृतमनाः पर्यावर्तत भारत ॥ ३० ॥
स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः ।शुश्राव तत्र वदतां दीना वाचः समन्ततः ॥ ३१ ॥
भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव ।अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥ ३२ ॥
आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः ।तव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥ ३३ ॥
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ ।सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥ ३४ ॥
संतिष्ठस्व महाबाहो मुहूर्तमपि भारत ।त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते ॥ ३५ ॥
एवं बहुविधा वाचः कृपणा वेदनावताम् ।तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥ ३६ ॥
तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् ।अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥ ३७ ॥
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः ।ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥ ३८ ॥
अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः ।उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥ ३९ ॥
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे ।कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥ ४० ॥
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत ।द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः ॥ ४१ ॥
ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप ।ततो विममृशे राजा किं न्विदं दैवकारितम् ॥ ४२ ॥
किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः ।कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥ ४३ ॥
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे ।न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥ ४४ ॥
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः ।तथा श्रिया युतः पापः सह सर्वैः पदानुगैः ॥ ४५ ॥
महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः ।कस्येदानीं विकारोऽयं यदिमे नरकं गताः ॥ ४६ ॥
सर्वधर्मविदः शूराः सत्यागमपरायणाः ।क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः ॥ ४७ ॥
किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये ।अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥ ४८ ॥
एवं बहुविधं राजा विममर्श युधिष्ठिरः ।दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥ ४९ ॥
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः ।देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥ ५० ॥
स तीव्रगन्धसंतप्तो देवदूतमुवाच ह ।गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥ ५१ ॥
न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम् ।मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे ॥ ५२ ॥
इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता ।जगाम तत्र यत्रास्ते देवराजः शतक्रतुः ॥ ५३ ॥
निवेदयामास च तद्धर्मराजचिकीर्षितम् ।यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥ ५४ ॥
« »