Click on words to see what they mean.

वैशंपायन उवाच ।ततस्ते नियतात्मान उदीचीं दिशमास्थिताः ।ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥ १ ॥
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् ।अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥ २ ॥
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् ।याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥ ३ ॥
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः ।उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥ ४ ॥
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप ।कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ॥ ५ ॥
युधिष्ठिर उवाच ।पक्षपातो महानस्या विशेषेण धनंजये ।तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥ ६ ॥
वैशंपायन उवाच ।एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः ।समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥ ७ ॥
सहदेवस्ततो धीमान्निपपात महीतले ।तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥ ८ ॥
योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः ।सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥ ९ ॥
युधिष्ठिर उवाच ।आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन ।तेन दोषेण पतितस्तस्मादेष नृपात्मजः ॥ १० ॥
वैशंपायन उवाच ।इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा ।भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥ ११ ॥
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् ।आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥ १२ ॥
तस्मिन्निपतिते वीरे नकुले चारुदर्शने ।पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥ १३ ॥
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः ।रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥ १४ ॥
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः ।नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः ॥ १५ ॥
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् ।अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥ १६ ॥
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर ।यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥ १७ ॥
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः ।पपात शोकसंतप्तस्ततोऽनु परवीरहा ॥ १८ ॥
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि ।म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥ १९ ॥
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः ।अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥ २० ॥
युधिष्ठिर उवाच ।एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् ।न च तत्कृतवानेष शूरमानी ततोऽपतत् ॥ २१ ॥
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः ।यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ॥ २२ ॥
वैशंपायन उवाच ।इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह ।पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥ २३ ॥
भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव ।किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥ २४ ॥
युधिष्ठिर उवाच ।अतिभुक्तं च भवता प्राणेन च विकत्थसे ।अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥ २५ ॥
वैशंपायन उवाच ।इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया ॥ २६ ॥
« »