Click on words to see what they mean.

वैशंपायन उवाच ।ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः ।रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥ १ ॥
स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः ।अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः ॥ २ ॥
भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह ।न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥ ३ ॥
सुकुमारी सुखार्हा च राजपुत्री पुरंदर ।सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥ ४ ॥
इन्द्र उवाच ।भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् ।कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥ ५ ॥
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ ।अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ॥ ६ ॥
युधिष्ठिर उवाच ।अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह ।स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥ ७ ॥
इन्द्र उवाच ।अमर्त्यत्वं मत्समत्वं च राजञ्श्रियं कृत्स्नां महतीं चैव कीर्तिम् ।संप्राप्तोऽद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति ॥ ८ ॥
युधिष्ठिर उवाच ।अनार्यमार्येण सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदार्य ।मा मे श्रिया संगमनं तयास्तु यस्याः कृते भक्तजनं त्यजेयम् ॥ ९ ॥
इन्द्र उवाच ।स्वर्गे लोके श्ववतां नास्ति धिष्ण्यमिष्टापूर्तं क्रोधवशा हरन्ति ।ततो विचार्य क्रियतां धर्मराज त्यज श्वानं नात्र नृशंसमस्ति ॥ १० ॥
युधिष्ठिर उवाच ।भक्तत्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्मवध्याकृतेन ।तस्मान्नाहं जातु कथंचनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र ॥ ११ ॥
इन्द्र उवाच ।शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च ।तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥ १२ ॥
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर ।श्वानं चैनं न त्यजसे कथं नु त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥ १३ ॥
युधिष्ठिर उवाच ।न विद्यते संधिरथापि विग्रहो मृतैर्मर्त्यैरिति लोकेषु निष्ठा ।न ते मया जीवयितुं हि शक्या तस्मात्त्यागस्तेषु कृतो न जीवताम् ॥ १४ ॥
प्रतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः ।मित्रद्रोहस्तानि चत्वारि शक्र भक्तत्यागश्चैव समो मतो मे ॥ १५ ॥
वैशंपायन उवाच ।तद्धर्मराजस्य वचो निशम्य धर्मस्वरूपी भगवानुवाच ।युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः ॥ १६ ॥
अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया ।अनुक्रोशेन चानेन सर्वभूतेषु भारत ॥ १७ ॥
पुरा द्वैतवने चासि मया पुत्र परीक्षितः ।पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ॥ १८ ॥
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ ।मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥ १९ ॥
अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया ।तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप ॥ २० ॥
अतस्तवाक्षया लोकाः स्वशरीरेण भारत ।प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ॥ २१ ॥
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि ।देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥ २२ ॥
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः ।सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥ २३ ॥
स तं रथं समास्थाय राजा कुरुकुलोद्वहः ।ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी ॥ २४ ॥
ततो देवनिकायस्थो नारदः सर्वलोकवित् ।उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥ २५ ॥
येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः ।कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥ २६ ॥
लोकानावृत्य यशसा तेजसा वृत्तसंपदा ।स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात् ॥ २७ ॥
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् ।देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥ २८ ॥
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे ।तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये ॥ २९ ॥
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः ।आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥ ३० ॥
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः ।किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ॥ ३१ ॥
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् ।नैव ते भ्रातरः स्थानं संप्राप्ताः कुरुनन्दन ॥ ३२ ॥
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप ।स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥ ३३ ॥
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् ।पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ॥ ३४ ॥
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण ।गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ॥ ३५ ॥
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता ।द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम ॥ ३६ ॥
« »