Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तः स बीभत्सुर्मातुलेन परंतपः ।दुर्मना दीनमनसं वसुदेवमुवाच ह ॥ १ ॥
नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल ।विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥ २ ॥
राजा च भीमसेनश्च सहदेवश्च पाण्डवः ।नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥ ३ ॥
राज्ञः संक्रमणे चापि कालोऽयं वर्तते ध्रुवम् ।तमिमं विद्धि संप्राप्तं कालं कालविदां वर ॥ ४ ॥
सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च ।नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ॥ ५ ॥
इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः ।अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥ ६ ॥
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् ।प्रविवेशार्जुनः शूरः शोचमानो महारथान् ॥ ७ ॥
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा ।ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे ॥ ८ ॥
तान्दीनमनसः सर्वान्निभृतान्गतचेतसः ।उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा ॥ ९ ॥
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् ।इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥ १० ॥
सज्जीकुरुत यानानि रत्नानि विविधानि च ।वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥ ११ ॥
सप्तमे दिवसे चैव रवौ विमल उद्गते ।बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम् ॥ १२ ॥
इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा ।सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥ १३ ॥
तां रात्रिमवसत्पार्थः केशवस्य निवेशने ।महता शोकमोहेन सहसाभिपरिप्लुतः ॥ १४ ॥
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् ।युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् ॥ १५ ॥
ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि ।दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥ १६ ॥
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः ।उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः ॥ १७ ॥
तं देवकी च भद्रा च रोहिणी मदिरा तथा ।अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥ १८ ॥
ततः शौरिं नृयुक्तेन बहुमाल्येन भारत ।यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥ १९ ॥
तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः ।द्वारकावासिनः पौराः सर्व एव नरर्षभ ॥ २० ॥
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः ।पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥ २१ ॥
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलंकृताः ।स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥ २२ ॥
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः ।तत्रैनमुपसंकल्प्य पितृमेधं प्रचक्रिरे ॥ २३ ॥
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः ।ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥ २४ ॥
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः ।अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥ २५ ॥
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः ।सामगानां च निर्घोषो नराणां रुदतामपि ॥ २६ ॥
ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः ।सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः ॥ २७ ॥
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः ।जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥ २८ ॥
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः ।बभूवातीव कौरव्यः प्राप्तकालं चकार च ॥ २९ ॥
यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा ।ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥ ३० ॥
ततः शरीरे रामस्य वासुदेवस्य चोभयोः ।अन्विष्य दाहयामास पुरुषैराप्तकारिभिः ॥ ३१ ॥
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः ।सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ।अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ॥ ३२ ॥
स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः ।अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम् ॥ ३३ ॥
भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये ।वीरहीनं वृद्धबालं पौरजानपदास्तथा ।ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥ ३४ ॥
कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा ।सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥ ३५ ॥
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः ।ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥ ३६ ॥
दश षट्च सहस्राणि वासुदेवावरोधनम् ।पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ॥ ३७ ॥
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥ ३८ ॥
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् ।उवाह रथिनां श्रेष्ठः पार्थः परपुरंजयः ॥ ३९ ॥
निर्याते तु जने तस्मिन्सागरो मकरालयः ।द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा ॥ ४० ॥
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः ।तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥ ४१ ॥
काननेषु च रम्येषु पर्वतेषु नदीषु च ।निवसन्नानयामास वृष्णिदारान्धनंजयः ॥ ४२ ॥
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् ।देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥ ४३ ॥
ततो लोभः समभवद्दस्यूनां निहतेश्वराः ।दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥ ४४ ॥
ततस्ते पापकर्माणो लोभोपहतचेतसः ।आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ॥ ४५ ॥
अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् ।नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः ॥ ४६ ॥
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः ।अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥ ४७ ॥
महता सिंहनादेन द्रावयन्तः पृथग्जनम् ।अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥ ४८ ॥
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः ।उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥ ४९ ॥
निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः ।नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥ ५० ॥
तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः ।अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः ॥ ५१ ॥
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् ।आरोपयितुमारेभे यत्नादिव कथंचन ॥ ५२ ॥
चकार सज्यं कृच्छ्रेण संभ्रमे तुमुले सति ।चिन्तयामास चास्त्राणि न च सस्मार तान्यपि ॥ ५३ ॥
वैकृत्यं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि ।दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ॥ ५४ ॥
वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः ।न शेकुरावर्तयितुं ह्रियमाणं च तं जनम् ॥ ५५ ॥
कलत्रस्य बहुत्वात्तु संपतत्सु ततस्ततः ।प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥ ५६ ॥
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः ।समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥ ५७ ॥
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः ।जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः ॥ ५८ ॥
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः ।अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥ ५९ ॥
स शरक्षयमासाद्य दुःखशोकसमाहतः ।धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥ ६० ॥
प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥ ६१ ॥
धनंजयस्तु दैवं तन्मनसाचिन्तयत्प्रभुः ।दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् ॥ ६२ ॥
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य संक्षयात् ।धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च ॥ ६३ ॥
बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन् ।न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत् ॥ ६४ ॥
ततः स शेषमादाय कलत्रस्य महामतिः ।हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥ ६५ ॥
एवं कलत्रमानीय वृष्णीनां हृतशेषितम् ।न्यवेशयत कौरव्यस्तत्र तत्र धनंजयः ॥ ६६ ॥
हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् ।भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥ ६७ ॥
ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः ।वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥ ६८ ॥
यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् ।न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥ ६९ ॥
इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा ।वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥ ७० ॥
रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि ।देवी जाम्बवती चैव विविशुर्जातवेदसम् ॥ ७१ ॥
सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः ।वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥ ७२ ॥
द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः ।यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥ ७३ ॥
स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः ।कृष्णद्वैपायनं राजन्ददर्शासीनमाश्रमे ॥ ७४ ॥
« »