Click on words to see what they mean.

वैशंपायन उवाच ।प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः ।ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् ॥ १ ॥
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् ।अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः ॥ २ ॥
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः ।आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ॥ ३ ॥
तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः ।निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥ ४ ॥
अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया ।युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे ॥ ५ ॥
न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ ।श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ॥ ६ ॥
अर्जुन उवाच ।यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः ।स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥ ७ ॥
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः ।बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥ ८ ॥
ये ते शूरा महात्मानः सिंहदर्पा महाबलाः ।भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥ ९ ॥
गदापरिघशक्तीनां सहाः परिघबाहवः ।त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ॥ १० ॥
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् ।निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥ ११ ॥
पुनः पुनर्न मृष्यामि विनाशममितौजसाम् ।चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥ १२ ॥
शोषणं सागरस्येव पर्वतस्येव चालनम् ।नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥ १३ ॥
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः ।न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥ १४ ॥
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन ।मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥ १५ ॥
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः ।आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ॥ १६ ॥
धनुरादाय तत्राहं नाशकं तस्य पूरणे ।यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत् ॥ १७ ॥
अस्त्राणि मे प्रनष्टानि विविधानि महामुने ।शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥ १८ ॥
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः ।चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ॥ १९ ॥
यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः ।प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥ २० ॥
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा ।शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् ॥ २१ ॥
तमपश्यन्विषीदामि घूर्णामीव च सत्तम ।परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥ २२ ॥
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे ।श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ॥ २३ ॥
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः ।उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥ २४ ॥
व्यास उवाच ।ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः ।विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥ २५ ॥
भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम् ।उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥ २६ ॥
त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् ।प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ॥ २७ ॥
रथस्य पुरतो याति यः स चक्रगदाधरः ।तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥ २८ ॥
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः ।मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ॥ २९ ॥
त्वया त्विह महत्कर्म देवानां पुरुषर्षभ ।कृतं भीमसहायेन यमाभ्यां च महाभुज ॥ ३० ॥
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुंगव ।गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ॥ ३१ ॥
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत ।भवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥ ३२ ॥
कालमूलमिदं सर्वं जगद्बीजं धनंजय ।काल एव समादत्ते पुनरेव यदृच्छया ॥ ३३ ॥
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः ।स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥ ३४ ॥
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् ।पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥ ३५ ॥
कालो गन्तुं गतिं मुख्यां भवतामपि भारत ।एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥ ३६ ॥
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः ।अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥ ३७ ॥
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् ।आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति ॥ ३८ ॥
« »