Click on words to see what they mean.

जनमेजय उवाच ।दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः ।धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ॥ १ ॥
वैशंपायन उवाच ।तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः ।वीतशोकः स राजर्षिः पुनराश्रममागमत् ॥ २ ॥
इतरस्तु जनः सर्वस्ते चैव परमर्षयः ।प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया ॥ ३ ॥
पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः ।अनुजग्मुर्महात्मानं सदारं तं महीपतिम् ॥ ४ ॥
तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः ।मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत ॥ ५ ॥
धृतराष्ट्र महाबाहो शृणु कौरवनन्दन ।श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् ॥ ६ ॥
ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् ।धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ॥ ७ ॥
मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः ।श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् ॥ ८ ॥
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् ।यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः ॥ ९ ॥
युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते ।सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः ॥ १० ॥
विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् ।मासः समधिको ह्येषामतीतो वसतां वने ॥ ११ ॥
एतद्धि नित्यं यत्नेन पदं रक्ष्यं परंतप ।बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप ॥ १२ ॥
इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना ।युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् ॥ १३ ॥
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह ।त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते ॥ १४ ॥
रमे चाहं त्वया पुत्र पुरेव गजसाह्वये ।नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना ॥ १५ ॥
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि ।न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम् ॥ १६ ॥
भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते ।तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ॥ १७ ॥
मातरौ ते तथैवेमे शीर्णपर्णकृताशने ।मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः ॥ १८ ॥
दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः ।व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ॥ १९ ॥
प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ ।उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि ॥ २० ॥
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् ।श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम् ॥ २१ ॥
राजनीतिः सुबहुशः श्रुता ते भरतर्षभ ।संदेष्टव्यं न पश्यामि कृतमेतावता विभो ॥ २२ ॥
इत्युक्तवचनं तात नृपो राजानमब्रवीत् ।न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥ २३ ॥
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा ।भवन्तमहमन्विष्ये मातरौ च यतव्रते ॥ २४ ॥
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे ।त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे ॥ २५ ॥
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् ।राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः ॥ २६ ॥
इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह ।स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः ॥ २७ ॥
विसर्जयति मां राजा गान्धारी च यशस्विनी ।भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः ॥ २८ ॥
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि ।तपसो हि परं नास्ति तपसा विन्दते महत् ॥ २९ ॥
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा ।तपस्येवानुरक्तं मे मनः सर्वात्मना तथा ॥ ३० ॥
शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे ।बान्धवा नः परिक्षीणा बलं नो न यथा पुरा ॥ ३१ ॥
पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः ।न तेषां कुलकर्तारं कंचित्पश्याम्यहं शुभे ॥ ३२ ॥
सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे ।अवशेषास्तु निहता द्रोणपुत्रेण वै निशि ॥ ३३ ॥
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः ।केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् ।यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम् ॥ ३४ ॥
शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव ।भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः ॥ ३५ ॥
एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः ।युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ॥ ३६ ॥
नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ ।प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ॥ ३७ ॥
इहैव शोषयिष्यामि तपसाहं कलेवरम् ।पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः ॥ ३८ ॥
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् ।गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम ॥ ३९ ॥
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः ।उपरोधो भवेदेवमस्माकं तपसः कृते ॥ ४० ॥
त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् ।तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो ॥ ४१ ॥
एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः ।सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ॥ ४२ ॥
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुंगवाः ।अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् ॥ ४३ ॥
राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः ।अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः ॥ ४४ ॥
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना ।अनुजज्ञे जयाशीर्भिरभिनन्द्य युधिष्ठिरम् ॥ ४५ ॥
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः ।स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ॥ ४६ ॥
अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ ।अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ॥ ४७ ॥
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः ।जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् ।चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे ॥ ४८ ॥
पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् ।तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः ॥ ४९ ॥
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः ।श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः ।संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह ॥ ५० ॥
ततः प्रजज्ञे निनदः सूतानां युज्यतामिति ।उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि ॥ ५१ ॥
ततो युधिष्ठिरो राजा सदारः सहसैनिकः ।नगरं हास्तिनपुरं पुनरायात्सबान्धवः ॥ ५२ ॥
« »