Click on words to see what they mean.

वैशंपायन उवाच ।अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् ।ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह ॥ १ ॥
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा ।अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च ॥ २ ॥
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् ।धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् ॥ ३ ॥
जनमेजय उवाच ।ममापि वरदो व्यासो दर्शयेत्पितरं यदि ।तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते ॥ ४ ॥
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः ।प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् ॥ ५ ॥
सूत उवाच ।इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् ।प्रसादमकरोद्धीमानानयच्च परिक्षितम् ॥ ६ ॥
ततस्तद्रूपवयसमागतं नृपतिं दिवः ।श्रीमन्तं पितरं राजा ददर्श जनमेजयः ॥ ७ ॥
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् ।अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह ॥ ८ ॥
ततः सोऽवभृथे राजा मुदितो जनमेजयः ।पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः ॥ ९ ॥
स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत् ।यायावरकुलोत्पन्नं जरत्कारुसुतं तदा ॥ १० ॥
आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः ।यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः ॥ ११ ॥
आस्तीक उवाच ।ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः ।यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ॥ १२ ॥
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन ।सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ॥ १३ ॥
कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव ।ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः ॥ १४ ॥
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् ।विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् ॥ १५ ॥
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये ।यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः ॥ १६ ॥
सूत उवाच ।एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।पूजयामास तमृषिमनुमान्य पुनः पुनः ॥ १७ ॥
पप्रच्छ तमृषिं चापि वैशंपायनमच्युतम् ।कथावशेषं धर्मज्ञो वनवासस्य सत्तम ॥ १८ ॥
« »