Click on words to see what they mean.

वैशंपायन उवाच ।द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया ।देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ॥ १ ॥
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः ।आसीनं परिविश्वस्तं प्रोवाच वदतां वरः ॥ २ ॥
चिरस्य खलु पश्यामि भगवन्तमुपस्थितम् ।कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ॥ ३ ॥
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते ।तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः ॥ ४ ॥
नारद उवाच ।चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् ।परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ॥ ५ ॥
युधिष्ठिर उवाच ।वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः ।धृतराष्ट्रं महात्मानमास्थितं परमं तपः ॥ ६ ॥
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः ।गान्धारी च पृथा चैव सूतपुत्रश्च संजयः ॥ ७ ॥
कथं च वर्तते चाद्य पिता मम स पार्थिवः ।श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ॥ ८ ॥
नारद उवाच ।स्थिरीभूय महाराज शृणु सर्वं यथातथम् ।यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने ॥ ९ ॥
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन ।कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप ॥ १० ॥
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः ।संजयेन च सूतेन साग्निहोत्रः सयाजकः ॥ ११ ॥
आतस्थे स तपस्तीव्रं पिता तव तपोधनः ।वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः ॥ १२ ॥
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः ।त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ॥ १३ ॥
गान्धारी तु जलाहारा कुन्ती मासोपवासिनी ।संजयः षष्ठभक्तेन वर्तयामास भारत ॥ १४ ॥
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो ।दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह ॥ १५ ॥
अनिकेतोऽथ राजा स बभूव वनगोचरः ।ते चापि सहिते देव्यौ संजयश्च तमन्वयुः ॥ १६ ॥
संजयो नृपतेर्नेता समेषु विषमेषु च ।गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता ॥ १७ ॥
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः ।गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् ॥ १८ ॥
अथ वायुः समुद्भूतो दावाग्निरभवन्महान् ।ददाह तद्वनं सर्वं परिगृह्य समन्ततः ॥ १९ ॥
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः ।वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ॥ २० ॥
समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे ।निराहारतया राजा मन्दप्राणविचेष्टितः ।असमर्थोऽपसरणे सुकृशौ मातरौ च ते ॥ २१ ॥
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् ।इदमाह ततः सूतं संजयं पृथिवीपते ॥ २२ ॥
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित् ।वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ॥ २३ ॥
तमुवाच किलोद्विग्नः संजयो वदतां वरः ।राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना ॥ २४ ॥
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः ।यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥ २५ ॥
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः ।नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ॥ २६ ॥
जलमग्निस्तथा वायुरथ वापि विकर्शनम् ।तापसानां प्रशस्यन्ते गच्छ संजय माचिरम् ॥ २७ ॥
इत्युक्त्वा संजयं राजा समाधाय मनस्तदा ।प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ॥ २८ ॥
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् ।उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो ॥ २९ ॥
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः ।संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ॥ ३० ॥
गान्धारी च महाभागा जननी च पृथा तव ।दावाग्निना समायुक्ते स च राजा पिता तव ॥ ३१ ॥
संजयस्तु महामात्रस्तस्माद्दावादमुच्यत ।गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ॥ ३२ ॥
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः ।प्रययौ संजयः सूतो हिमवन्तं महीधरम् ॥ ३३ ॥
एवं स निधनं प्राप्तः कुरुराजो महामनाः ।गान्धारी च पृथा चैव जनन्यौ ते नराधिप ॥ ३४ ॥
यदृच्छयानुव्रजता मया राज्ञः कलेवरम् ।तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ ॥ ३५ ॥
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः ।श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते ॥ ३६ ॥
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम ।यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ॥ ३७ ॥
न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः ।प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ॥ ३८ ॥
वैशंपायन उवाच ।एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् ।निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ॥ ३९ ॥
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् ।पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ॥ ४० ॥
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः ।ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ।भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ॥ ४१ ॥
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः ।प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ॥ ४२ ॥
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् ।अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ॥ ४३ ॥
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत ।निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् ॥ ४४ ॥
« »