Click on words to see what they mean.

संवर्त उवाच ।गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः ।तप्यते यत्र भगवांस्तपो नित्यमुमापतिः ॥ १ ॥
वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च ।गुहासु शैलराजस्य यथाकामं यथासुखम् ॥ २ ॥
उमासहायो भगवान्यत्र नित्यं महेश्वरः ।आस्ते शूली महातेजा नानाभूतगणावृतः ॥ ३ ॥
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा ।यमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥ ४ ॥
भूतानि च पिशाचाश्च नासत्यावश्विनावपि ।गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ॥ ५ ॥
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः ।उपासन्ते महात्मानं बहुरूपमुमापतिम् ॥ ६ ॥
रमते भगवांस्तत्र कुबेरानुचरैः सह ।विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ।श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ॥ ७ ॥
न रूपं दृश्यते तस्य संस्थानं वा कथंचन ।निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ॥ ८ ॥
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः ।न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ॥ ९ ॥
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर ।धातवो जातरूपस्य रश्मयः सवितुर्यथा ॥ १० ॥
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः ।चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ॥ ११ ॥
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे ।रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ॥ १२ ॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ।त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ॥ १३ ॥
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च ।क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥ १४ ॥
हरिकेशाय मुण्डाय कृशायोत्तारणाय च ।भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥ १५ ॥
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ।गिरिशाय प्रशान्ताय यतये चीरवाससे ॥ १६ ॥
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च ।मृगव्याधाय महते धन्विनेऽथ भवाय च ॥ १७ ॥
वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे ।हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥ १८ ॥
पशूनां पतये चैव भूतानां पतये तथा ।वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥ १९ ॥
स्रुवहस्ताय पतये धन्विने भार्गवाय च ।अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥ २० ॥
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च ।महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते ॥ २१ ॥
तथा शुक्राधिपतये पृथवे कृत्तिवाससे ।कपालमालिने नित्यं सुवर्णमुकुटाय च ॥ २२ ॥
महादेवाय कृष्णाय त्र्यम्बकायानघाय च ।क्रोधनाय नृशंसाय मृदवे बाहुशालिने ॥ २३ ॥
दण्डिने तप्ततपसे तथैव क्रूरकर्मणे ।सहस्रशिरसे चैव सहस्रचरणाय च ।नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥ २४ ॥
पिनाकिनं महादेवं महायोगिनमव्ययम् ।त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ २५ ॥
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ।प्रभवं सर्वभूतानां धारणं धरणीधरम् ॥ २६ ॥
ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम् ।उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥ २७ ॥
विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् ।उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ॥ २८ ॥
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम् ।विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ २९ ॥
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् ।शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥ ३० ॥
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे ।महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ।सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥ ३१ ॥
व्यास उवाच ।इत्युक्तः स वचस्तस्य चक्रे कारंधमात्मजः ।ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ।सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः ॥ ३२ ॥
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः ।समृद्धिमति देवेभ्यः संतापमकरोद्भृशम् ॥ ३३ ॥
स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् ।भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ॥ ३४ ॥
तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् ।अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥ ३५ ॥
« »