Click on words to see what they mean.

इन्द्र उवाच ।कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते ।कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति ॥ १ ॥
बृहस्पतिरुवाच ।सुखं शयेऽहं शयने महेन्द्र तथा मनोज्ञाः परिचारका मे ।तथा देवानां सुखकामोऽस्मि शक्र देवाश्च मां सुभृशं पालयन्ति ॥ २ ॥
इन्द्र उवाच ।कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य ।आचक्ष्व मे तद्द्विज यावदेतान्निहन्मि सर्वांस्तव दुःखकर्तॄन् ॥ ३ ॥
बृहस्पतिरुवाच ।मरुत्तमाहुर्मघवन्यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन ।तं संवर्तो याजयितेति मे श्रुतं तदिच्छामि न स तं याजयेत ॥ ४ ॥
इन्द्र उवाच ।सर्वान्कामाननुजातोऽसि विप्र यस्त्वं देवानां मन्त्रयसे पुरोधाः ।उभौ च ते जन्ममृत्यू व्यतीतौ किं संवर्तस्तव कर्ताद्य विप्र ॥ ५ ॥
बृहस्पतिरुवाच ।देवैः सह त्वमसुरान्संप्रणुद्य जिघांससेऽद्याप्युत सानुबन्धान् ।यं यं समृद्धं पश्यसि तत्र तत्र दुःखं सपत्नेषु समृद्धभावः ॥ ६ ॥
अतोऽस्मि देवेन्द्र विवर्णरूपः सपत्नो मे वर्धते तन्निशम्य ।सर्वोपायैर्मघवन्संनियच्छ संवर्तं वा पार्थिवं वा मरुत्तम् ॥ ७ ॥
इन्द्र उवाच ।एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते ।अयं वै त्वा याजयिता बृहस्पतिस्तथामरं चैव करिष्यतीति ॥ ८ ॥
अग्निरुवाच ।अयं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं मरुत्ते ।वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः ॥ ९ ॥
व्यास उवाच ।ततः प्रायाद्धूमकेतुर्महात्मा वनस्पतीन्वीरुधश्चावमृद्नन् ।कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन् ॥ १० ॥
मरुत्त उवाच ।आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् ।आसनं सलिलं पाद्यं गां चोपानय वै मुने ॥ ११ ॥
अग्निरुवाच ।आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ ।इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ॥ १२ ॥
मरुत्त उवाच ।कच्चिच्छ्रीमान्देवराजः सुखी च कच्चिच्चास्मान्प्रीयते धूमकेतो ।कच्चिद्देवाश्चास्य वशे यथावत्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव ॥ १३ ॥
अग्निरुवाच ।शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां वै त्वया सः ।देवाश्च सर्वे वशगास्तस्य राजन्संदेशं त्वं शृणु मे देवराज्ञः ॥ १४ ॥
यदर्थं मां प्राहिणोत्त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते ।अयं गुरुर्याजयिता नृप त्वां मर्त्यं सन्तममरं त्वां करोतु ॥ १५ ॥
मरुत्त उवाच ।संवर्तोऽयं याजयिता द्विजो मे बृहस्पतेरञ्जलिरेष तस्य ।नासौ देवं याजयित्वा महेन्द्रं मर्त्यं सन्तं याजयन्नद्य शोभेत् ॥ १६ ॥
अग्निरुवाच ।ये वै लोका देवलोके महान्तः संप्राप्स्यसे तान्देवराजप्रसादात् ।त्वां चेदसौ याजयेद्वै बृहस्पतिर्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ॥ १७ ॥
तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः ।ते ते जिता देवराज्यं च कृत्स्नं बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र ॥ १८ ॥
संवर्त उवाच ।मास्मानेवं त्वं पुनरागाः कथंचिद्बृहस्पतिं परिदातुं मरुत्ते ।मा त्वां धक्ष्ये चक्षुषा दारुणेन संक्रुद्धोऽहं पावक तन्निबोध ॥ १९ ॥
व्यास उवाच ।ततो देवानगमद्धूमकेतुर्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् ।तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः संनिधौ हव्यवाहम् ॥ २० ॥
यत्त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते ।तत्किं प्राह स नृपो यक्ष्यमाणः कच्चिद्वचः प्रतिगृह्णाति तच्च ॥ २१ ॥
अग्निरुवाच ।न ते वाचं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत्सः ।संवर्तो मां याजयितेत्यभीक्ष्णं पुनः पुनः स मया प्रोच्यमानः ॥ २२ ॥
उवाचेदं मानुषा ये च दिव्याः प्रजापतेर्ये च लोका महान्तः ।तांश्चेल्लभेयं संविदं तेन कृत्वा तथापि नेच्छेयमिति प्रतीतः ॥ २३ ॥
इन्द्र उवाच ।पुनर्भवान्पार्थिवं तं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम् ।पुनर्यद्युक्तो न करिष्यते वचस्ततो वज्रं संप्रहर्तास्मि तस्मै ॥ २४ ॥
अग्निरुवाच ।गन्धर्वराड्यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम् ।संरब्धो मामब्रवीत्तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः ॥ २५ ॥
यद्यागच्छेः पुनरेवं कथंचिद्बृहस्पतिं परिदातुं मरुत्ते ।दहेयं त्वां चक्षुषा दारुणेन संक्रुद्ध इत्येतदवैहि शक्र ॥ २६ ॥
इन्द्र उवाच ।त्वमेवान्यान्दहसे जातवेदो न हि त्वदन्यो विद्यते भस्मकर्ता ।त्वत्संस्पर्शात्सर्वलोको बिभेत्यश्रद्धेयं वदसे हव्यवाह ॥ २७ ॥
अग्निरुवाच ।दिवं देवेन्द्र पृथिवीं चैव सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र ।एवंविधस्येह सतस्तवासौ कथं वृत्रस्त्रिदिवं प्राग्जहार ॥ २८ ॥
इन्द्र उवाच ।न चण्डिका जङ्गमा नो करेणुर्न वारिसोमं प्रपिबामि वह्ने ।न दुर्बले वै विसृजामि वज्रं को मेऽसुखाय प्रहरेन्मनुष्यः ॥ २९ ॥
प्रव्राजयेयं कालकेयान्पृथिव्यामपाकर्षं दानवानन्तरिक्षात् ।दिवः प्रह्रादमवसानमानयं को मेऽसुखाय प्रहरेत मर्त्यः ॥ ३० ॥
अग्निरुवाच ।यत्र शर्यातिं च्यवनो याजयिष्यन्सहाश्विभ्यां सोममगृह्णदेकः ।तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्छर्यातियज्ञं स्मर तं महेन्द्र ॥ ३१ ॥
वज्रं गृहीत्वा च पुरंदर त्वं संप्राहार्षीश्च्यवनस्यातिघोरम् ।स ते विप्रः सह वज्रेण बाहुमपागृह्णात्तपसा जातमन्युः ॥ ३२ ॥
ततो रोषात्सर्वतो घोररूपं सपत्नं ते जनयामास भूयः ।मदं नामासुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ॥ ३३ ॥
हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य ।सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव ॥ ३४ ॥
वृत्ताः स्थूला रजतस्तम्भवर्णा दंष्ट्राश्चतस्रो द्वे शते योजनानाम् ।स त्वां दन्तान्विदशन्नभ्यधावज्जिघांसया शूलमुद्यम्य घोरम् ॥ ३५ ॥
अपश्यस्त्वं तं तदा घोररूपं सर्वे त्वन्ये ददृशुर्दर्शनीयम् ।यस्माद्भीतः प्राञ्जलिस्त्वं महर्षिमागच्छेथाः शरणं दानवघ्न ॥ ३६ ॥
क्षत्रादेवं ब्रह्मबलं गरीयो न ब्रह्मतः किंचिदन्यद्गरीयः ।सोऽहं जानन्ब्रह्मतेजो यथावन्न संवर्तं गन्तुमिच्छामि शक्र ॥ ३७ ॥
« »