Click on words to see what they mean.

व्यास उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।बृहस्पतेश्च संवादं मरुत्तस्य च भारत ॥ १ ॥
देवराजस्य समयं कृतमाङ्गिरसेन ह ।श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा ॥ २ ॥
संकल्प्य मनसा यज्ञं करंधमसुतात्मजः ।बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ॥ ३ ॥
भगवन्यन्मया पूर्वमभिगम्य तपोधन ।कृतोऽभिसंधिर्यज्ञाय भवतो वचनाद्गुरो ॥ ४ ॥
तमहं यष्टुमिच्छामि संभाराः संभृताश्च मे ।याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥ ५ ॥
बृहस्पतिरुवाच ।न कामये याजयितुं त्वामहं पृथिवीपते ।वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥ ६ ॥
मरुत्त उवाच ।पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् ।न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् ॥ ७ ॥
बृहस्पतिरुवाच ।अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् ।मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ॥ ८ ॥
न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि ।उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥ ९ ॥
व्यास उवाच ।एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् ।प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् ॥ १० ॥
देवर्षिणा समागम्य नारदेन स पार्थिवः ।विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥ ११ ॥
राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ ।क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् ॥ १२ ॥
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ ।व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ॥ १३ ॥
एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा ।विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् ॥ १४ ॥
गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् ।यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत ॥ १५ ॥
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये ।परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥ १६ ॥
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह ।आविक्षितं महाराज वाचा संजीवयन्निव ॥ १७ ॥
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः ।चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥ १८ ॥
तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः ।प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति ॥ १९ ॥
मरुत्त उवाच ।संजीवितोऽहं भवता वाक्येनानेन नारद ।पश्येयं क्व नु संवर्तं शंस मे वदतां वर ॥ २० ॥
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् ।प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥ २१ ॥
नारद उवाच ।उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् ।वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥ २२ ॥
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् ।तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते ॥ २३ ॥
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् ।तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥ २४ ॥
पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह ।ब्रूयास्त्वं नारदेनेति संतप्त इव शत्रुहन् ॥ २५ ॥
स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया ।शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ॥ २६ ॥
व्यास उवाच ।स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् ।अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ॥ २७ ॥
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः ।कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥ २८ ॥
यौगपद्येन विप्रश्च स पुरीद्वारमाविशत् ।ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत ॥ २९ ॥
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् ।आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥ ३० ॥
स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च ।श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् ॥ ३१ ॥
स तथा बाध्यमानोऽपि संवर्तेन महीपतिः ।अन्वगादेव तमृषिं प्राञ्जलिः संप्रसादयन् ॥ ३२ ॥
ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् ।शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥ ३३ ॥
« »