Click on words to see what they mean.

युधिष्ठिर उवाच ।कथंवीर्यः समभवत्स राजा वदतां वरः ।कथं च जातरूपेण समयुज्यत स द्विज ॥ १ ॥
क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते ।कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन ॥ २ ॥
व्यास उवाच ।असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः ।अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ॥ ३ ॥
तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः ।बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ॥ ४ ॥
तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम् ।बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः ॥ ५ ॥
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत ।अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् ॥ ६ ॥
वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च ।इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ।पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् ॥ ७ ॥
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः ।वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च ।शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः ॥ ८ ॥
वाहनं यस्य योधाश्च द्रव्याणि विविधानि च ।ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ॥ ९ ॥
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः ।संजीव्य कालमिष्टं च सशरीरो दिवं गतः ॥ १० ॥
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् ।अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् ।विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ॥ ११ ॥
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् ।पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा ॥ १२ ॥
स्पर्धते सततं स स्म देवराजेन पार्थिवः ।वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन ॥ १३ ॥
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः ।यतमानोऽपि यं शक्रो न विशेषयति स्म ह ॥ १४ ॥
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् ।उवाचेदं वचो देवैः सहितो हरिवाहनः ॥ १५ ॥
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन ।दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम् ॥ १६ ॥
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते ।इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ॥ १७ ॥
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् ।याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ॥ १८ ॥
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् ।परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ॥ १९ ॥
एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः ।मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत् ॥ २० ॥
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः ।नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ॥ २१ ॥
त्वमाजहर्थ देवानामेको वीर श्रियं पराम् ।त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ॥ २२ ॥
पौरोहित्यं कथं कृत्वा तव देवगणेश्वर ।याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥ २३ ॥
समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित् ।ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ॥ २४ ॥
हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी ।भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि ॥ २५ ॥
बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः ।प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ॥ २६ ॥
« »