Click on words to see what they mean.

वैशंपायन उवाच ।स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् ।दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥ १ ॥
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् ।प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ॥ २ ॥
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् ।भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम ॥ ३ ॥
उत्तङ्क उवाच ।राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् ।न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ॥ ४ ॥
राजोवाच ।षष्ठे काले ममाहारो विहितो द्विजसत्तम ।न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै ॥ ५ ॥
उत्तङ्क उवाच ।एवमस्तु महाराज समयः क्रियतां तु मे ।गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ॥ ६ ॥
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम ।त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर ॥ ७ ॥
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः ।दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह ।पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ॥ ८ ॥
उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम ।समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ॥ ९ ॥
सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किंचन ।अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥ १० ॥
सौदास उवाच ।यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः ।यदि चास्मि प्रतिग्राह्यः सांप्रतं तद्ब्रवीहि मे ॥ ११ ॥
उत्तङ्क उवाच ।प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ ।सोऽहं त्वामनुसंप्राप्तो भिक्षितुं मणिकुण्डले ॥ १२ ॥
सौदास उवाच ।पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले ।वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ॥ १३ ॥
उत्तङ्क उवाच ।अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् ।प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव ॥ १४ ॥
वैशंपायन उवाच ।इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः ।गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ॥ १५ ॥
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता ।प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ॥ १६ ॥
उत्तङ्क उवाच ।क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर ।स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति ॥ १७ ॥
सौदास उवाच ।द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे ।षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ॥ १८ ॥
उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ ।मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम् ॥ १९ ॥
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना ।प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय ॥ २० ॥
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ ।अभिज्ञानं तु किंचित्त्वं समानेतुमिहार्हसि ॥ २१ ॥
इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महोरगाश्च ।तैस्तैरुपायैः परिहर्तुकामाश्छिद्रेषु नित्यं परितर्कयन्ति ॥ २२ ॥
निक्षिप्तमेतद्भुवि पन्नगास्तु रत्नं समासाद्य परामृषेयुः ।यक्षास्तथोच्छिष्टधृतं सुराश्च निद्रावशं त्वा परिधर्षयेयुः ॥ २३ ॥
छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ ।देवराक्षसनागानामप्रमत्तेन धार्यते ॥ २४ ॥
स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम ।नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते ॥ २५ ॥
एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः ।विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ॥ २६ ॥
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा ।अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः ॥ २७ ॥
एवंविधे ममैते वै कुण्डले परमार्चिते ।त्रिषु लोकेषु विख्याते तदभिज्ञानमानय ॥ २८ ॥
« »