Click on words to see what they mean.

वैशंपायन उवाच ।स मित्रसहमासाद्य त्वभिज्ञानमयाचत ।तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ॥ १ ॥
सौदास उवाच ।न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः ।एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले ॥ २ ॥
वैशंपायन उवाच ।इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् ।श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले ॥ ३ ॥
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् ।किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ॥ ४ ॥
सौदास उवाच ।प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह ।विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ॥ ५ ॥
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् ।गतिमन्यां न पश्यामि मदयन्तीसहायवान् ।स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ॥ ६ ॥
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः ।शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् ॥ ७ ॥
तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले ।यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे ॥ ८ ॥
उत्तङ्क उवाच ।राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् ।प्रश्नं तु कंचित्प्रष्टुं त्वां व्यवसिष्ये परंतप ॥ ९ ॥
सौदास उवाच ।ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः ।छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ॥ १० ॥
उत्तङ्क उवाच ।प्राहुर्वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः ।मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ॥ ११ ॥
स भवान्मित्रतामद्य संप्राप्तो मम पार्थिव ।स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर ॥ १२ ॥
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः ।भवत्सकाशमागन्तुं क्षमं मम न वेति वा ॥ १३ ॥
सौदास उवाच ।क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम ।मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन ॥ १४ ॥
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह ।आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् ॥ १५ ॥
वैशंपायन उवाच ।इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् ।समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् ॥ १६ ॥
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः ।जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ॥ १७ ॥
यथा तयो रक्षणं च मदयन्त्याभिभाषितम् ।तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत् ॥ १८ ॥
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् ।बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः ॥ १९ ॥
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम ।यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ॥ २० ॥
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् ।अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ॥ २१ ॥
ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै ।विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ॥ २२ ॥
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह ।पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ॥ २३ ॥
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा ।क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुंगवः ॥ २४ ॥
तस्य वेगमसह्यं तमसहन्ती वसुंधरा ।दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा ॥ २५ ॥
ततः खनत एवाथ विप्रर्षेर्धरणीतलम् ।नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ॥ २६ ॥
रथेन हरियुक्तेन तं देशमुपजग्मिवान् ।वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् ॥ २७ ॥
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः ।उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै ॥ २८ ॥
इतो हि नागलोको वै योजनानि सहस्रशः ।न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ॥ २९ ॥
उत्तङ्क उवाच ।नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया ।प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ ३० ॥
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा ।वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ॥ ३१ ॥
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुंधरा ।नागलोकस्य पन्थानमकरोज्जनमेजय ॥ ३२ ॥
स तेन मार्गेण तदा नागलोकं विवेश ह ।ददर्श नागलोकं च योजनानि सहस्रशः ॥ ३३ ॥
प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलंकृतैः ।उपपन्नं महाभाग शातकुम्भमयैस्तथा ॥ ३४ ॥
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः ।ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ॥ ३५ ॥
तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः ।पञ्चयोजनविस्तारमायतं शतयोजनम् ॥ ३६ ॥
नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा ।निराशश्चाभवत्तात कुण्डलाहरणे पुनः ॥ ३७ ॥
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः ।ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा ॥ ३८ ॥
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे ।ऐरावतसुतेनेह तवानीते हि कुण्डले ॥ ३९ ॥
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन ।त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ॥ ४० ॥
उत्तङ्क उवाच ।कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति ।यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् ॥ ४१ ॥
अश्व उवाच ।गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् ।त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः ॥ ४२ ॥
सततं पूजितो विप्र शुचिना भृगुनन्दन ।तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् ॥ ४३ ॥
इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना ।घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ॥ ४४ ॥
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत ।घनः प्रादुरभूद्धूमो नागलोकभयावहः ॥ ४५ ॥
तेन धूमेन सहसा वर्धमानेन भारत ।नागलोके महाराज न प्रज्ञायत किंचन ॥ ४६ ॥
हाहाकृतमभूत्सर्वमैरावतनिवेशनम् ।वासुकिप्रमुखानां च नागानां जनमेजय ॥ ४७ ॥
न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत ।नीहारसंवृतानीव वनानि गिरयस्तथा ॥ ४८ ॥
ते धूमरक्तनयना वह्नितेजोभितापिताः ।आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः ॥ ४९ ॥
श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः ।संभ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि ॥ ५० ॥
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः ।शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ॥ ५१ ॥
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च ।प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ॥ ५२ ॥
ततः संपूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् ।अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ॥ ५३ ॥
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् ।प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ ॥ ५४ ॥
एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय ।परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ॥ ५५ ॥
एवंप्रभावः स मुनिरुत्तङ्को भरतर्षभ ।परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ॥ ५६ ॥
« »