Click on words to see what they mean.

जनमेजय उवाच ।उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः ।यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे ॥ १ ॥
वैशंपायन उवाच ।उत्तङ्को महता युक्तस्तपसा जनमेजय ।गुरुभक्तः स तेजस्वी नान्यं कंचिदपूजयत् ॥ २ ॥
सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः ।औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत ॥ ३ ॥
गौतमस्य तु शिष्याणां बहूनां जनमेजय ।उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥ ४ ॥
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा ।सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥ ५ ॥
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः ।उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ॥ ६ ॥
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् ।न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥ ७ ॥
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ ।उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् ॥ ८ ॥
स तु भाराभिभूतात्मा काष्ठभारमरिंदम ।निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः ॥ ९ ॥
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा ।ततः काष्ठैः सह तदा पपात धरणीतले ॥ १० ॥
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः ।दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ॥ ११ ॥
ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा ।जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना ।पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा ॥ १२ ॥
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः ।न हि तानश्रुपातान्वै शक्ता धारयितुं मही ॥ १३ ॥
गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः ।कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ।स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः ॥ १४ ॥
उत्तङ्क उवाच ।भवद्गतेन मनसा भवत्प्रियचिकीर्षया ।भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥ १५ ॥
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे ।शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः ॥ १६ ॥
भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया ।उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥ १७ ॥
गौतम उवाच ।त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव ।व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ ॥ १८ ॥
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव ।अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् ॥ १९ ॥
उत्तङ्क उवाच ।गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम ।तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥ २० ॥
गौतम उवाच ।दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते ।तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः ॥ २१ ॥
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह ।युवा षोडशवर्षो हि यदद्य भविता भवान् ॥ २२ ॥
ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज ।एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् ॥ २३ ॥
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् ।गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥ २४ ॥
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् ।प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि ॥ २५ ॥
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् ।तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥ २६ ॥
अहल्योवाच ।परितुष्टास्मि ते पुत्र नित्यं भगवता सह ।पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् ॥ २७ ॥
वैशंपायन उवाच ।उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः ।आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव ॥ २८ ॥
अहल्योवाच ।सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले ।ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥ २९ ॥
स तथेति प्रतिश्रुत्य जगाम जनमेजय ।गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥ ३० ॥
स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः ।सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥ ३१ ॥
गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते ।इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै ॥ ३२ ॥
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् ।शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥ ३३ ॥
अहल्योवाच ।अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे ।भवत्प्रसादान्न भयं किंचित्तस्य भविष्यति ॥ ३४ ॥
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः ।उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥ ३५ ॥
« »