Click on words to see what they mean.

ब्रह्मोवाच ।भूतानामथ पञ्चानां यथैषामीश्वरं मनः ।नियमे च विसर्गे च भूतात्मा मन एव च ॥ १ ॥
अधिष्ठाता मनो नित्यं भूतानां महतां तथा ।बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते ॥ २ ॥
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः ।इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा ॥ ३ ॥
महाभूतसमायुक्तं बुद्धिसंयमनं रथम् ।तमारुह्य स भूतात्मा समन्तात्परिधावति ॥ ४ ॥
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च ।बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ॥ ५ ॥
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् ।स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ६ ॥
अव्यक्तादि विशेषान्तं त्रसस्थावरसंकुलम् ।चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् ॥ ७ ॥
नदीपर्वतजालैश्च सर्वतः परिभूषितम् ।विविधाभिस्तथाद्भिश्च सततं समलंकृतम् ॥ ८ ॥
आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः ।एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् ॥ ९ ॥
लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च ।तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः ।गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः ॥ १० ॥
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः ।सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥ ११ ॥
एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः ।तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु ।प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ॥ १२ ॥
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति ।भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम् ॥ १३ ॥
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः ।तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥ १४ ॥
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा ।त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥ १५ ॥
ओषधान्यगदादीनी नानाविद्याश्च सर्वशः ।तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् ॥ १६ ॥
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् ।तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ १७ ॥
सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः ।तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ १८ ॥
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः ।यानि चान्यानि भूतानि त्रसानि स्थावराणि च ॥ १९ ॥
तपःपरायणा नित्यं सिध्यन्ते तपसा सदा ।तथैव तपसा देवा महाभागा दिवं गताः ॥ २० ॥
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः ।अहंकारसमायुक्तास्ते सकाशे प्रजापतेः ॥ २१ ॥
ध्यानयोगेन शुद्धेन निर्ममा निरहंकृताः ।प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ॥ २२ ॥
ध्यानयोगादुपागम्य प्रसन्नमतयः सदा ।सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया ॥ २३ ॥
ध्यानयोगादुपागम्य निर्ममा निरहंकृताः ।अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् ॥ २४ ॥
अव्यक्तादेव संभूतः समयज्ञो गतः पुनः ।तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम् ॥ २५ ॥
विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः ।क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ॥ २६ ॥
चित्तं चित्तादुपागम्य मुनिरासीत संयतः ।यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् ॥ २७ ॥
अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम् ।निबोधत यथा हीदं गुणैर्लक्षणमित्युत ॥ २८ ॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥ २९ ॥
कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः ।ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते ॥ ३० ॥
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः ।पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् ॥ ३१ ॥
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः ।विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ॥ ३२ ॥
अपूर्वममृतं नित्यं य एनमविचारिणम् ।य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् ।अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः ॥ ३३ ॥
अपोह्य सर्वसंकल्पान्संयम्यात्मानमात्मनि ।स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ॥ ३४ ॥
प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् ।लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ॥ ३५ ॥
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः ।प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ॥ ३६ ॥
एषा गतिरसक्तानामेष धर्मः सनातनः ।एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ॥ ३७ ॥
समेन सर्वभूतेषु निःस्पृहेण निराशिषा ।शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ॥ ३८ ॥
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः ।एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ॥ ३९ ॥
गुरुरुवाच ।इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा ।कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् ॥ ४० ॥
त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः ।सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि ॥ ४१ ॥
वासुदेव उवाच ।इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् ।चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ॥ ४२ ॥
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह ।तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥ ४३ ॥
अर्जुन उवाच ।को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन ।श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ॥ ४४ ॥
वासुदेव उवाच ।अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे ।त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनंजय ॥ ४५ ॥
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह ।अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ॥ ४६ ॥
ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन ।सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् ॥ ४७ ॥
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते ।मया तव महाबाहो तस्मादत्र मनः कुरु ॥ ४८ ॥
मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो ।तमहं द्रष्टुमिच्छामि संमते तव फल्गुन ॥ ४९ ॥
वैशंपायन उवाच ।इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः ।गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ॥ ५० ॥
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् ।समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि ॥ ५१ ॥
« »