Click on words to see what they mean.

वैशंपायन उवाच ।ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् ।मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ॥ १ ॥
तथैव चानुयात्राणि चोदयामास पाण्डवः ।सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् ॥ २ ॥
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते ।आचख्युः सज्जमित्येव पार्थायामिततेजसे ॥ ३ ॥
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ ।विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते ॥ ४ ॥
रथस्थं तु महातेजा वासुदेवं धनंजयः ।पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ॥ ५ ॥
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह ।निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ॥ ६ ॥
नाथवन्तश्च भवता पाण्डवा मधुसूदन ।भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ॥ ७ ॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।यथाहं त्वा विजानामि यथा चाहं भवन्मनाः ॥ ८ ॥
त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन ।रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ॥ ९ ॥
त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् ।त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् ॥ १० ॥
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् ।हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः ॥ ११ ॥
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः ।प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ॥ १२ ॥
रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् ।त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ॥ १३ ॥
सुदीर्घेणापि कालेन न ते शक्या गुणा मया ।आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ॥ १४ ॥
विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा ।कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् ॥ १५ ॥
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः ।यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ ॥ १६ ॥
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन ।इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया ॥ १७ ॥
यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः ।त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ॥ १८ ॥
भवता तत्कृतं कर्म येनावाप्तो जयो मया ।दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः ॥ १९ ॥
कर्णस्य च वधोपायो यथावत्संप्रदर्शितः ।सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥ २० ॥
अहं च प्रीयमाणेन त्वया देवकिनन्दन ।यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥ २१ ॥
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् ।चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ॥ २२ ॥
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो ।अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन ।बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुंगवान् ॥ २३ ॥
एवं संभाषमाणौ तौ प्राप्तौ वारणसाह्वयम् ।तथा विविशतुश्चोभौ संप्रहृष्टनराकुलम् ॥ २४ ॥
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् ।ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ॥ २५ ॥
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् ।भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ।धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ॥ २६ ॥
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् ।सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ।ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै ॥ २७ ॥
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ ।निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ॥ २८ ॥
गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च ।भीमस्य च महात्मानौ तथा पादावगृह्णताम् ॥ २९ ॥
क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलमव्ययम् ।तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् ॥ ३० ॥
ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् ।जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥ ३१ ॥
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् ।धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥ ३२ ॥
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः ।कृष्णः सुष्वाप मेधावी धनंजयसहायवान् ॥ ३३ ॥
प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ ।धर्मराजस्य भवनं जग्मतुः परमार्चितौ ।यत्रास्ते स सहामात्यो धर्मराजो महामनाः ॥ ३४ ॥
ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ ।धर्मराजानमासीनं देवराजमिवाश्विनौ ॥ ३५ ॥
तौ समासाद्य राजानं वार्ष्णेयकुरुपुंगवौ ।निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै ॥ ३६ ॥
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ ।प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥ ३७ ॥
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ ।ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् ॥ ३८ ॥
इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् ।विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥ ३९ ॥
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् ।भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ॥ ४० ॥
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे ।आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ॥ ४१ ॥
युधिष्ठिर उवाच ।पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन ।पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् ॥ ४२ ॥
रोचते मे महाबाहो गमनं तव केशव ।मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ॥ ४३ ॥
मातुलं वसुदेवं त्वं बलदेवं च माधव ।पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ॥ ४४ ॥
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् ।फल्गुनं नकुलं चैव सहदेवं च माधव ॥ ४५ ॥
आनर्तानवलोक्य त्वं पितरं च महाभुज ।वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ॥ ४६ ॥
स गच्छ रत्नान्यादाय विविधानि वसूनि च ।यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥ ४७ ॥
इयं हि वसुधा सर्वा प्रसादात्तव माधव ।अस्मानुपगता वीर निहताश्चापि शत्रवः ॥ ४८ ॥
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे ।वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ ४९ ॥
तवैव रत्नानि धनं च केवलम्धरा च कृत्स्ना तु महाभुजाद्य वै ।यदस्ति चान्यद्द्रविणं गृहेषु मे त्वमेव तस्येश्वर नित्यमीश्वरः ॥ ५० ॥
तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान् ।पितृष्वसामभ्यवदद्यथाविधि संपूजितश्चाप्यगमत्प्रदक्षिणम् ॥ ५१ ॥
तया स सम्यक्प्रतिनन्दितस्तदा तथैव सर्वैर्विदुरादिभिस्ततः ।विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्युजा हरिः ॥ ५२ ॥
रथं सुभद्रामधिरोप्य भामिनीं युधिष्ठिरस्यानुमते जनार्दनः ।पितृष्वसायाश्च तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः ॥ ५३ ॥
तमन्वगाद्वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि ।अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः ॥ ५४ ॥
निवर्तयित्वा कुरुराष्ट्रवर्धनांस्ततः स सर्वान्विदुरं च वीर्यवान् ।जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिस्तदा ॥ ५५ ॥
ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः ।यथा निहत्यारिगणाञ्शतक्रतुर्दिवं तथानर्तपुरीं प्रतापवान् ॥ ५६ ॥
« »