Click on words to see what they mean.

ब्रह्मोवाच ।अहंकारात्प्रसूतानि महाभूतानि पञ्च वै ।पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १ ॥
तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु ।शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ॥ २ ॥
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ।सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ॥ ३ ॥
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते ।लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ ४ ॥
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे ।स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ॥ ५ ॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।क्रियाकारणयुक्ताः स्युरनित्या मोहसंज्ञिताः ॥ ६ ॥
लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिंचनाः ।मांसशोणितसंघाता अन्योन्यस्योपजीविनः ॥ ७ ॥
बहिरात्मान इत्येते दीनाः कृपणवृत्तयः ।प्राणापानावुदानश्च समानो व्यान एव च ॥ ८ ॥
अन्तरात्मेति चाप्येते नियताः पञ्च वायवः ।वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ॥ ९ ॥
त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता ।विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ॥ १० ॥
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा ।स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते ॥ ११ ॥
एकादश च यान्याहुरिन्द्रियाणि विशेषतः ।अहंकारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः ॥ १२ ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत् ॥ १३ ॥
इन्द्रियग्राम इत्येष मन एकादशं भवेत् ।एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ॥ १४ ॥
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च ।श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ॥ १५ ॥
अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु ।उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत् ॥ १६ ॥
इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात् ।मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः ॥ १७ ॥
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते ।स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् ॥ १८ ॥
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च ।चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ॥ १९ ॥
अचराण्यपि भूतानि खेचराणि तथैव च ।अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ॥ २० ॥
संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः ।जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते ॥ २१ ॥
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् ।उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः ॥ २२ ॥
द्विपादबहुपादानि तिर्यग्गतिमतीनि च ।जरायुजानि भूतानि वित्त तान्यपि सत्तमाः ॥ २३ ॥
द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना ।तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ॥ २४ ॥
द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे ।जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ॥ २५ ॥
एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः ।विमुक्तः सर्वपापेभ्य इति चैव निबोधत ॥ २६ ॥
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ।अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥ २७ ॥
द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् ।स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् ॥ २८ ॥
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते ।अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ॥ २९ ॥
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते ।अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥ ३० ॥
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते ।अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥ ३१ ॥
एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः ।अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ॥ ३२ ॥
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ।अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥ ३३ ॥
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते ।अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥ ३४ ॥
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते ।अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ॥ ३५ ॥
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः ।अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम् ॥ ३६ ॥
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते ।वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ॥ ३७ ॥
अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम् ।अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम् ॥ ३८ ॥
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी ।अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् ॥ ३९ ॥
यथावदध्यात्मविधिरेष वः कीर्तितो मया ।ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह ॥ ४० ॥
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ।सर्वाण्येतानि संधाय मनसा संप्रधारयेत् ॥ ४१ ॥
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते ।ज्ञानसंपन्नसत्त्वानां तत्सुखं विदुषां मतम् ॥ ४२ ॥
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् ।निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥ ४३ ॥
गुणागुणमनासङ्गमेकचर्यमनन्तरम् ।एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् ॥ ४४ ॥
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः ।विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ॥ ४५ ॥
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः ।सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति ॥ ४६ ॥
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् ।मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ॥ ४७ ॥
यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते ।तथेन्द्रियनिरोधेन महानात्मा प्रकाशते ॥ ४८ ॥
यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि ।स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम् ॥ ४९ ॥
अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च ।मही पङ्कधरं घोरमाकाशं श्रवणं तथा ॥ ५० ॥
रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् ।पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ॥ ५१ ॥
रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् ।संसर्गाभिरतं मूढं शरीरमिति धारणा ॥ ५२ ॥
दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् ।एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ॥ ५३ ॥
एतन्महार्णवं घोरमगाधं मोहसंज्ञितम् ।विसृजेत्संक्षिपेच्चैव बोधयेत्सामरं जगत् ॥ ५४ ॥
कामक्रोधौ भयं मोहमभिद्रोहमथानृतम् ।इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान् ॥ ५५ ॥
यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः ।व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते ॥ ५६ ॥
कामकूलामपारान्तां मनःस्रोतोभयावहाम् ।नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत् ॥ ५७ ॥
स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् ।मनो मनसि संधाय पश्यत्यात्मानमात्मनि ॥ ५८ ॥
सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि ।एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ॥ ५९ ॥
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा ।स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ॥ ६० ॥
स हि धाता विधाता च स प्रभुः सर्वतोमुखः ।हृदयं सर्वभूतानां महानात्मा प्रकाशते ॥ ६१ ॥
तं विप्रसंघाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि ।रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति ॥ ६२ ॥
« »