Click on words to see what they mean.

ब्रह्मोवाच ।मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः ।कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥ १ ॥
अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम् ।गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥ २ ॥
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा ।शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ।एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः ॥ ३ ॥
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् ।श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः ॥ ४ ॥
शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा ।एते पर्वतराजानो गणानां मरुतस्तथा ॥ ५ ॥
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः ।यमः पितॄणामधिपः सरितामथ सागरः ॥ ६ ॥
अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते ।अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ॥ ७ ॥
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः ।ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः ॥ ८ ॥
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः ।दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा ॥ ९ ॥
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् ।कुबेरः सर्वयक्षाणां देवतानां पुरंदरः ।एष भूतादिकः सर्गः प्रजानां च प्रजापतिः ॥ १० ॥
सर्वेषामेव भूतानामहं ब्रह्ममयो महान् ।भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ॥ ११ ॥
राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान् ।ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥ १२ ॥
नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम् ।देवदानवनागानां सर्वेषामीश्वरो हि सः ॥ १३ ॥
भगदेवानुयातानां सर्वासां वामलोचना ।माहेश्वरी महादेवी प्रोच्यते पार्वतीति या ॥ १४ ॥
उमां देवीं विजानीत नारीणामुत्तमां शुभाम् ।रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥ १५ ॥
धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः ।तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ॥ १६ ॥
राज्ञां हि विषये येषामवसीदन्ति साधवः ।हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ॥ १७ ॥
राज्ञां तु विषये येषां साधवः परिरक्षिताः ।तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च ।प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ॥ १८ ॥
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् ।अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा ॥ १९ ॥
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः ।शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः ॥ २० ॥
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः ।धरणी सर्वभूतानां पृथिवी गन्धलक्षणा ॥ २१ ॥
स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा ।मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् ॥ २२ ॥
मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति ।बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः ॥ २३ ॥
लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम् ।प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ॥ २४ ॥
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् ।अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम् ॥ २५ ॥
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया ।गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ॥ २६ ॥
पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते ।घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ॥ २७ ॥
अपां धातुरसो नित्यं जिह्वया स तु गृह्यते ।जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥ २८ ॥
ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते ।चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते ॥ २९ ॥
वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः ।त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते ॥ ३० ॥
आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते ।श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥ ३१ ॥
मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते ।हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते ॥ ३२ ॥
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा ।निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः ॥ ३३ ॥
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ।तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥ ३४ ॥
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् ।सदा पश्याम्यहं लीनं विजानामि शृणोमि च ॥ ३५ ॥
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते ।गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ॥ ३६ ॥
आदिमध्यावसानान्तं सृज्यमानमचेतनम् ।न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः ॥ ३७ ॥
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति ।गुणानां गुणभूतानां यत्परं परतो महत् ॥ ३८ ॥
तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित् ।क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ॥ ३९ ॥
निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च ।अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः ॥ ४० ॥
« »