Click on words to see what they mean.

ब्रह्मोवाच ।य उत्पन्नो महान्पूर्वमहंकारः स उच्यते ।अहमित्येव संभूतो द्वितीयः सर्ग उच्यते ॥ १ ॥
अहंकारश्च भूतादिर्वैकारिक इति स्मृतः ।तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ॥ २ ॥
देवानां प्रभवो देवो मनसश्च त्रिलोककृत् ।अहमित्येव तत्सर्वमभिमन्ता स उच्यते ॥ ३ ॥
अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् ।स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ॥ ४ ॥
अहंकारेणाहरतो गुणानिमान्भूतादिरेवं सृजते स भूतकृत् ।वैकारिकः सर्वमिदं विचेष्टते स्वतेजसा रञ्जयते जगत्तथा ॥ ५ ॥
« »