Click on words to see what they mean.

वासुदेव उवाच ।ततस्तस्योपसंगृह्य पादौ प्रश्नान्सुदुर्वचान् ।पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥ १ ॥
काश्यप उवाच ।कथं शरीरं च्यवते कथं चैवोपपद्यते ।कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ २ ॥
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥ ३ ॥
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥ ४ ॥
ब्राह्मण उवाच ।एवं संचोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥ ५ ॥
सिद्ध उवाच ।आयुःकीर्तिकराणीह यानि कर्माणि सेवते ।शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ ६ ॥
आयुःक्षयपरीतात्मा विपरीतानि सेवते ।बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ ७ ॥
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा ।अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥ ८ ॥
यदायमतिकष्टानि सर्वाण्युपनिषेवते ।अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ॥ ९ ॥
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च ।गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥ १० ॥
व्यायाममतिमात्रं वा व्यवायं चोपसेवते ।सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् ॥ ११ ॥
रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते ।अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥ १२ ॥
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥ १३ ॥
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा ।जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ १४ ॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥ १५ ॥
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च ॥ १६ ॥
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् ।शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ।वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ १७ ॥
जातीमरणसंविग्नाः सततं सर्वजन्तवः ।दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ ॥ १८ ॥
गर्भसंक्रमणे चापि मर्मणामतिसर्पणे ।तादृशीमेव लभते वेदनां मानवः पुनः ॥ १९ ॥
भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः ।यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ।शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ २० ॥
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः ।स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥ २१ ॥
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते ।निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥ २२ ॥
ब्रह्मणा संपरित्यक्तो मृत इत्युच्यते नरः ।स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।तैरेव न विजानाति प्राणमाहारसंभवम् ॥ २३ ॥
तत्रैव कुरुते काये यः स जीवः सनातनः ।तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् ।तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ २४ ॥
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।ततः स चेतनो जन्तुर्नाभिजानाति किंचन ॥ २५ ॥
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु ।स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥ २६ ॥
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ २७ ॥
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥ २८ ॥
ब्राह्मणा ज्ञानसंपन्ना यथावच्छ्रुतनिश्चयाः ।इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ २९ ॥
यथान्धकारे खद्योतं लीयमानं ततस्ततः ।चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥ ३० ॥
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा ।च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ ३१ ॥
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः ।कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ ३२ ॥
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ ३३ ॥
इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः ।अवाक्स निरये पापो मानवः पच्यते भृशम् ।तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥ ३४ ॥
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ।तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् ॥ ३५ ॥
तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् ।यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥ ३६ ॥
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ ३७ ॥
न तत्राप्यस्ति संतोषो दृष्ट्वा दीप्ततरां श्रियम् ।इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥ ३८ ॥
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् ।यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ ३९ ॥
« »