Click on words to see what they mean.

जनमेजय उवाच ।सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः ।केशवार्जुनयोः का नु कथा समभवद्द्विज ॥ १ ॥
वैशंपायन उवाच ।कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् ।तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ २ ॥
ततः कंचित्सभोद्देशं स्वर्गोद्देशसमं नृप ।यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ ३ ॥
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः ।निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ ४ ॥
विदितं ते महाबाहो संग्रामे समुपस्थिते ।माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम् ॥ ५ ॥
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् ।तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ ६ ॥
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो ।भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥ ७ ॥
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत ।परिष्वज्य महातेजा वचनं वदतां वरः ॥ ८ ॥
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ ९ ॥
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् ।नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥ १० ॥
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ।न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ ११ ॥
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया ।इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ १२ ॥
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि ।शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥ १३ ॥
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम ।ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ १४ ॥
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ ।दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ १५ ॥
ब्राह्मण उवाच ।मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि ।भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ॥ १६ ॥
तत्तेऽहं संप्रवक्ष्यामि यथावन्मधुसूदन ।शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ १७ ॥
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः ।आससाद द्विजं कंचिद्धर्माणामागतागमम् ॥ १८ ॥
गतागते सुबहुशो ज्ञानविज्ञानपारगम् ।लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः ॥ १९ ॥
जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः ।द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ २० ॥
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् ।दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥ २१ ॥
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः ।तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ २२ ॥
संभाषमाणमेकान्ते समासीनं च तैः सह ।यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ २३ ॥
तं समासाद्य मेधावी स तदा द्विजसत्तमः ।चरणौ धर्मकामो वै तपस्वी सुसमाहितः ।प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ २४ ॥
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् ।परिचारेण महता गुरुं वैद्यमतोषयत् ॥ २५ ॥
प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयुतः ।भावेन तोषयच्चैनं गुरुवृत्त्या परंतपः ॥ २६ ॥
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः ।सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥ २७ ॥
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः ।गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥ २८ ॥
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः ।स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ २९ ॥
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् ।काममन्युपरीतेन तृष्णया मोहितेन च ॥ ३० ॥
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः ।आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥ ३१ ॥
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः ।सुखानि च विचित्राणि दुःखानि च मयानघ ॥ ३२ ॥
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह ।धननाशश्च संप्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ ३३ ॥
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा ।शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥ ३४ ॥
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः ।पतनं निरये चैव यातनाश्च यमक्षये ॥ ३५ ॥
जरा रोगाश्च सततं वासनानि च भूरिशः ।लोकेऽस्मिन्ननुभूतानि द्वंद्वजानि भृशं मया ॥ ३६ ॥
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च ।लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ।ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥ ३७ ॥
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ।आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा ॥ ३८ ॥
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ।इतः परं गमिष्यामि ततः परतरं पुनः ।ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः ॥ ३९ ॥
नाहं पुनरिहागन्ता मर्त्यलोकं परंतप ।प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ ४० ॥
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः ।अभिजाने च तदहं यदर्थं मा त्वमागतः ।अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥ ४१ ॥
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण ।परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥ ४२ ॥
बहु मन्ये च ते बुद्धिं भृशं संपूजयामि च ।येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ ४३ ॥
« »